________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४४ ॥
नार:, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्वृत्त्योत्पद्यन्ते । भुजपरिसर्पाणामुत्कृष्टाऽवगाहना गव्यूतपृथक्त्वं, स्थितिरुत्कर्पतः पूर्व कोटी, उद्वर्त्तनाचिन्तायां द्वितीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेपूत्पादः ॥ खचरगर्भव्युत्क्रान्तिकपश्वेन्द्रियभेदो यथा संमूच्छिमखचराणां, शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत्, नवरमवगाहना स्थित्युद्वर्त्तनासु नानात्वं, तत्रोत्कर्षतोऽवगाहना धनुष्पृथक्त्वं, जघन्यतः सर्वत्राप्यङ्गुलायेयभागप्रमाणा, स्थितिरपि जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतोऽत्र पल्योपमासङ्ख्येयभागः, उद्वर्त्तना तृतीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः कचित्पुस्तकान्तरेऽवगाहनास्थित्योर्यथाक्रमं सङ्ग्रहणिगाथे— “जोयणसहस्स छग्गाउयाइ तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे धणुयपुहुत्तं च पक्खीसु ॥ १ ॥ गर्भमि पुत्र्वकोडी तिन्नि य पलिओवमाई परमाउं । उरभुयग पुव्वकोडी पलियअसंखेज्जभागो य ॥ २ ॥" अनयोर्व्याख्या गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टावगाहना योजनसहस्रं, चतुष्पदानां षड् गव्यू॑तानि, उरः परिसर्पाणां योजनसहस्रं, भुजपरिसर्पाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तथा गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी, चतुष्पदानां त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणां पल्योपमासयेयभाग इति ॥ उत्पादविधिस्तु नरकेष्वस्माद्गाथाद्वयादवसेयः – “ अस्सण्णी खलु पढमं दोच्चं च सरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ॥ १ ॥ छट्ठि च इत्थियाउ मच्छा मणुया य सत्तमिं पुढविं । एसो परमुववाओ बोद्धवो नरयपुढवीसु ॥ २ ॥” उक्ताः पञ्चेन्द्रियतिर्यभ्वः सम्प्रति मनुष्यप्रतिपादनार्थमाह
१ असंझिन. खलं प्रथमां द्वितीयां च सरीसृपास्तृतीया पक्षिण । सिंहा यान्ति चतुर्थीमुरगा. पुन. पश्चम पृथ्वीम् ॥ १ ॥ षष्ठीं च स्त्रिय मरस्या मनुष्याश्च सप्तमीं पृथ्वीं यावत् । एष परम उत्पातो बोद्धव्यो नारकपृथ्वीषु ॥ २ ॥
१ प्रतिपतौ
स्थलचर
खेचराग
र्भजाः
सू० ३९
४०
॥ ४४ ॥