________________
श्रीजीवा-४ तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेपास्तु जीवाभि०
६ प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति कथमवसीयते ?, उच्यते, इह भगवताय॑श्यामेन प्रमलयगि
ज्ञापनायामाहारपदे द्वितीयोदेशके सूत्रमिदमपाठि-"आहारपज्जत्तीए अपज्जत्तए णं भते! किं आहारए अणाहारए?, गोयमा! रीयावृत्तिः 8 नो आहारए अणाहारए” इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्य ॥१०॥
प्रथमसमय एवाहारकत्वात् , तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्त्या अपर्याप्तः स्यार त्तत एवं व्याकरणसूत्रं पठेत्-"सिय आहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिपु "सिय आहारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, 'अभ्रादिभ्य' इति मत्वर्थीयोप्रत्ययः, पर्याप्ता एव पर्याप्तकाः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ता एवापर्याप्तकाः, ते द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव नियन्ते ते लब्ध्याऽपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावनिर्वर्त्तयन्ति अथचावश्य निर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः ॥ सम्प्रति विनेयजनानुग्रहाय शेपवक्तव्यतासङ्ग्रहार्थमिदं सद्मणिगाथाद्वयमाह-सरीरोगाहणसंघयण संठाणकसाय तह य हुंति सन्नाओ । लेसिदियसमुग्धाए सन्नी वेए य पजत्ती ॥१॥ दिही दसणनाणे जोगुवओगे तहा किमाहारे । उववायठिई समुग्धाय चवणगइरागई चेव ॥ २ ॥ अस्य व्याख्या-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तरं संस्थानं, तत: कपायाः, ततः कति भवन्ति सज्ञा: इति वक्तव्यं, ततो लेश्या:, तदनन्तरमिन्द्रियाणि, ततः समुद्घाताः, ततः किं सज्जिनोऽसम्झिनो वा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, तत: पर्याप्तयो
जीवाजीवाभि० प्रतिपत्तिः
ROCRACREGASCRICALCREACOC0-56
॥१०॥