________________
स स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं मृगयन्ते, आकाशवमात्रस्योभयत्रापि तुल्यत्वात् , विशेषणमन्तरेण च वैशिष्ट्यायोगात् , कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम् , अन्यञ्च-तावन्मात्रस्याकाशखण्डस्य स खभावो न परस्येत्यपि कुतः प्रमाणात्परिकल्प्यते', आगमप्रमाणादिति चेत् तथाहि-तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावयेते न परत इति, यद्येवं तांगमप्रामाण्यवलादेव धर्माधर्मास्तिकायावपि गतिस्थितिनिवन्धनमिष्येयाता किमाकाशखण्डस्य निर्मूलस्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीपामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम् , आदौ धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा च सम्प्रत्युक्षिप्ता वर्त्तते, ततो मगलार्थमादी धर्मास्तिकायस्योपादानं, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपि चानयोराधारभूतमाकाशमिति तद-1 नन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभू न भवतः, तद्विभुत्वेन तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ ता-8 वत्प्रमाणो लोकः, शेषस्त्वलोक इति सिद्धम् , उक्तं च-"धर्माधर्मविभुत्वात्सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ १॥ तस्माद्धर्माधर्माववगाढौ व्याप्य लोकखं सर्वम् । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तविभुत्वात् ॥ २॥" तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं-सेत्तं अरूविअजीवाभि