________________
अथैवं ब्रूयात्-पुत्रादयः प्रौढीभूताः पुरस्तादुपकारिणो भविष्यन्तीति तेषु ममत्वं, परे तु नैवमिति तेषु प्रद्वप इत्याशङ्कयाह-'उबयारे' त्यादि, उपकारश्चापकारश्चोपकारापकारी तद्भावस्य सन्देहस्तत्र सति इदमुक्तं भवति-पुत्रोऽपि वृहत्तरीभूतः पितरं घातादिना अपकरोति, परोऽपि हि प्रातिवेशिकादिबहदुन्नती सत्यामुपकरोति, तत् कोऽत्र कस्मादुपकारापकारनिश्चय ? इत्यतो न युक्ती स्वपरभावेन रागद्वषाविति ॥ इतोऽपि न युक्तं विभवस्वजनादिषु ममत्वं कुतः, ? इत्याह
पवणो व्व गयणमग्गे अलक्खिओ भमइ भववणे जीवो ।
ठाणे ठाणम्मि समुज्झिऊण धणसयणसंघाए ।।७।। ___ यथा पवनो-वायुगगने चक्षुषा अलक्षितो भ्रमति तथा जीवोऽप्यमूर्त्तत्वात् सर्वेन्द्रियैरनुपलक्षितो भववने परिभ्रमति, किं कृत्वा ? इत्याह-'ठाणे' इत्यादि, अतः कियत्सु स्थानेषु मूर्छा कर्तव्येति भावः ॥ तथाजह वसिऊणं देसियकुडीइ एकाइ विविहपंथियणो । वच्चइ पभायसमए अन्नन्नदिसासु सव्वोऽवि ।। जह वा महल्लरुक्खे पओससमए विहंगमकुलाई । वसिऊण जंति सूरोदयम्मि ससमीहियदिसासु॥
।। ५३॥