________________
भव. भावना
सम्यगज्ञानस्य माहात्म्य वर्णनम्
प्रकरणे
सुरामा एव । नवरं येषां सम्यगज्ञानं स्फरति ते ममत्वस्नेहानुबन्धादिभिर्भावैः कथमपि न वाध्यन्ते । किं कुर्वन्त इत्याह-मनसि-चित्ते ज्ञानबलेन एवं वक्ष्यमाणं विभावयन्त इति ॥ किं विभावयन्तो ज्ञानिनो ममत्वादिभिर्न बाध्यन्त इत्याहजरमरणसमं न भयं न दुहं नरगाइजम्मओ अन्नं । तो जम्ममरणजरमूलकारणं छिंदसु ममत्तं ॥ जावइयं किं पि दुहं सारीरं माणसं च संसारे । पत्तं अणं तसो वि हु विहवाइममत्तदोसेण ॥५०॥ कुणसि ममत्तं धणसयणविहवपमुहेसुऽणंतदुक्खेसु। सिढिलेसि आयरं पुण अणंतसोक्खम्मि मोक्खम्मि
एता अप्युत्तानार्था एव । नवरं यावत् किमपि शारीरं मानसं च संसारे दुःखं तावत् सर्वमपि विभवादिममत्वदोषेणानन्तशोऽपि जीव ! त्वया प्राप्तमिति परिभाव्य छिद्धि ममत्वमित्येवं विभावयन् 4 ज्ञानी ममत्वेन तावत् क्वापि न बाध्यते । तथा धनं गवादिकं, स्वजना:-पुत्रमातृमातुलकादयो, विभवो
द्रविणादिः, प्रमुखग्रहणाच्छरीरादिपरिग्रहः, एतेष्वनन्तदुःखहेतुषु वस्तुषु जीव ! करोषि ममत्वं, १. तखुत्तो विह-मु.॥