________________
तदेवमुक्तं रोगजराविषयमशरणत्वम्, अथ मृत्युविषयं तद् विभणिपुराह
समुवद्वियम्मि मरणे ससंभमे परियणम्मि धावते । को सरणं परिचिंतसु एकं मोत्तूण जिणधम्मं ? |
समुपस्थिते मरणे, निरुपक्रमे इति शेषः, सोपक्रमे तु तस्मिन् भवन्ति विभवस्वजनादयोऽपि शरणं ॥ जिनधर्मोऽप्यनन्तरभावेन परम्परया वा मृत्युवर्जिते स्थाने नयतीत्येतावता शरणमुच्यते, तद्भव एव सद्यः सोऽपि तं निवारयितुं न शक्नोति, अत एवाह
सयलतियलोयपहुणो ज्वायविहिजाणगा अनंतबला । तित्थयरा वह कीरति कित्तिसेसा कर्यंतेण ॥४४॥
उत्कृष्ट हि धर्मस्तीकराणां, परं सोऽपि तद्भव एव न मृत्युं निवारयितुमलं, उपायांश्च संभविनः सर्वानपि केवली जानाति परं समुत्पन्न केवलैस्तीर्थ करैरपि स कोऽप्युपायो न दृष्टो येन मृत्युः सद्य एव निवार्यते, एवमनन्तबलादिविशेषणानामपि सफलताऽभ्यूया ॥ अथ शान्तास्तीर्थंकरा इति प्रभवत्येषां मृत्युः ये तु शक्रचक्रवर्तिवासुदेवा रौद्रास्तेषामसौ न प्रभविष्यतीत्याशङ्क्याऽऽहबहुतिओ सुरको डिपरिवुडो पविपर्यंडभुयदंडो । हरिणो व्व हीर हरी कर्यंत हरिणाऽहरियसत्तो ।
॥ २१ ॥