________________
चत्वार्यप्टमानि, द्वे दशमे, द्वे द्वादशे, द्वे चतुर्दशे, द्वे षोडशे, द्वे अष्टादशे, द्वे विंशतितमे, द्वे द्वाविंशतितमे, | द्वे चतुर्विंशतितमे, द्वे पड़ि विशतितमे, द्वे अष्टाविंशतितमे, द्वे त्रिंशत्तमे, द्वे द्वात्रिंशत्तमे द्वे चतुस्त्रिं- 15 | शत्तमे इति; एवं च सर्वैकत्वेवर्षमेकं चतुर्विंशतिश्च तपोदिनानि भवंति, अष्टाशीतिश्च पारणकदिनानि, | उभयमीलनेन वर्षेणैकेन त्रिभिर्मासै-विंशत्या च दिनैरियं समर्थ्यते । अस्यां च कनकावल्यां सर्वकामिताहारेण पारणकं भवति, निर्विकृतिकेन वा अलेपद्रव्यैर्वा आचाम्लेन वा इत्येवं पारणकमेदादियं । चतुर्दा भवति । ततः पंचभिर्वर्षेः मासद्वयेनाष्टाविंशत्या च दिवसैश्चतुर्विधापीयं समाप्यत इति ॥ रत्नावल्यप्येवमेव द्रष्टव्या, केवलं दाडिमद्वये पदके च षष्ठस्थानेऽष्टमानि वाच्यानि, शेषं सर्व तथैवेति ॥ अथ मुक्तावलीतपो भण्यते-अत्राऽऽदौ चतुर्थ, ततो द्वावुपवासौ ततः पुनरपि चतुर्थ, ततस्त्रय उपवासाः, ततः पुनरपि चतुर्थ, चत्वार उपवासाः, एवं चतुर्थान्तरितमेकोत्तरवृद्धया नेयं, चेतुर्थ पंचोपवासाः, चतुर्थं षट् , चतुर्थं सप्त, चतुर्थमष्टौ चतुर्थं नव चतुर्थं दश चतुर्थमेकादश चतुर्थ द्वादश चतुर्थ त्रयोदश चतुर्थ चतुर्दश चतुर्थ पंचदश चतुर्थ षोडशोपवासाः, एवमर्ध मुक्तावल्या निष्पन्नं, द्वितीयमप्यमेवमेव द्रष्टव्यं, केवलमत्र प्रतिलोमगत्या उपवासान् करोति, तद्यथा-पोडशोपवासान् कृत्वा पारयति, ततश्चतुर्थ, ततः पंचदशेत्येवं चतुर्थान्तरितमेकोत्तरहान्या नेयं यावत् द्वावुपवासौ कृत्वा पर्यंते चतुर्थ करोति, अत्र स्थापना
११॥