________________
अट्ठारस पिढिकरंडयस्स संधीओ होंति देहम्मि । बारस पंसुलियकरंडया इहं तह छ पंसुलिए ॥
होइ कडाहे सत्तंगुलाई जीहा पलाई पुण चउरो।
अच्छीओ दो पलाई सिरं च भणियं चउकवालं ॥४०७॥ देहे-मनुष्यशरीरे पृष्ठिकरंडस्य-पृष्ठिवंशस्याष्टादशग्रन्थिरूपाः सन्धयो भवन्ति, यथा वंशस्य पर्वाणि । तेषु चाष्टादश सुसंधिषु मध्ये द्वादशभ्यः संधिभ्यो द्वादश पांसुलिका निर्गत्योभयपाावावृत्य वक्षःस्थलमध्योलवयंस्थिन लगित्वा पल्लवाकारतया परिणमंति, अत आह--इह शरीरे द्वादश पांशु
लिकारूपाः करंडका वंशका भवन्ति, 'तह छप्पंसुलिए होइ कडाहे'त्ति तथा तस्मिन्नेव पृष्ठिवंशे Pा शेपषसन्धिभ्यः षट् पांशुलिका निर्गत्य पार्श्वद्वयं चावृत्य हृदयस्योभयतो (ग्रं० ११०००) वक्षःपंज
राधस्ताच्छिथिलकुक्षेस्तूपरिष्टात् परस्परासंमिलितास्तिष्ठन्ति, अयं च कटाह इत्युच्यते । जिह्वामुखाभ्यन्तरवर्तिमांसखण्डरूपा दैर्येणात्मागुलतः सप्ताङ्गुलानि भवति, तौल्ये तु मगधदेशप्रसिद्धपलेन चत्वारि पलानि भवति । अक्षिमांसगोलको तु द्वे पले | शिरस्त्वस्थिखण्डरूपैश्वतुभिः कपालैर्निष्पद्यत इति ॥ तथा