________________
'बहिर्वृत्तानी'त्यादीनि मनोनयनसुखदानीत्येतत् पर्यन्तानि भवनानां विशेषणानि । तत्र च दीप्यमान रत्नभासुराणि निविष्टानि स्थितानि गोपुरेषु - प्रतोलीद्वारेषु कपाटानि येषु तानि तथा । द्वारेषु प्रतिद्वारेषु च तोरणैश्चन्दनकलशैश्च भूषितानि । तथा रत्नविनिर्मितैः पुत्तलिकास्तंभशयनासनैश्च भूषितानि । तथा रत्नराशिभिः कलितानि, सौम्यकान्तिभिर्दीप्यमानानि । वितीर्णा दत्ता दशार्द्धवर्णै:- पंचवर्णैः कुसुमैरुपचारा येषु तानि तथा । बहुसुरभिद्रव्यमिश्रितेन सुगन्धगोशीर्ष श्रीखंडरसेन निषिक्तानि हरिचन्दनस्य बहुलस्तव कैर्दत्तानि पंचांगुलितलानि येषु तानि तथा । शेषं सुखोन्नेयमिति ॥
अथ त्र्यन्तरनगराणां संख्यां स्वरूपं चाह -
तह चैव संठियाई संखाईयाई रयणमइयाई । नयराई वंतराणं हवंति पुव्युत्तरूवाई ॥३४०॥
'तह चेव संठियाई'ति वहिर्वृत्तान्यन्तश्चतुरस्राण्यधस्तु पद्मकर्णिका निभानि भवनानि यथा प्रोक्तानि तथैवैतान्यपि संस्थितानि, केवलं संख्यायामेतान्यसंख्येयानि द्रष्टव्यानि शेषं तु स्वरूपं पूर्ववदिति ॥ १. यमेवेति - वा० ॥
।। २७७ ॥