________________
भवभावनाप्रकरणे द्वितीयो विभागः॥
[ तत्र च द्वितीया अशरणभावना ]
antereआह-ननु भवतु सर्वस्यापि देहादिवस्तुनोऽनित्यता, तथाऽपि तदाऽलिङ्गितानां जिनधर्मKoll मन्तरेणाऽन्यः कोऽपि कुटुम्बस्वजनादिः शरणं भविष्यति, किं जिनधर्मानुष्ठानेन इत्याशङ्कय द्वितीया- |
मशरणत्वभावनां विभणिषुराहरोयजरामच्चुमुहागयाण वलचक्किकेसवाणं पि । भुवणेवि नत्थि सरणं एकं जिणसासणं मोत्तुं ।
रोगाश्च जरा च मृत्युश्च तन्मुखागतानां-तदाऽऽलिङ्गितानां बलदेवकेशवचक्रिणामपि जिनशासनादन्यो भुवनेऽपि न शरणम् , अतस्तदेव शरणतयाऽऽश्रयणीयं, तस्कररिपुजलज्वलनाधारब्धानां भवेदपि कोऽपि कस्यापि शरणम् इति विशेषतो रोगजरामृत्युग्रहणमिति भावः ॥ तत्र च ज्वरश्वासादिरोगग्रस्तानां कुटुम्ब शरणं न भवति, नापि तदुःखं विभज्य गृह्णाति इति दर्शयति