________________
| रुदन्ति निवादितवदनाः, शोचन्ति प्रसारितचरणाः, आक्रन्दन्ति विस्वरं; ततो हा तात ! हा मात ! रित्यादि पूत्कुर्वन्तः कुर्वन्ति तास्ताः सद्बुद्धिजनशोचनीयाश्चेष्टाः, ततो मिथ्याभिमानसुभटस्य पृष्ठत एवासौ शोकनामा सुभटस्तस्यैव बालकस्य मरणसमये तेनैव महीभृता प्रेषितः, ततः प्रविशद्भिदृष्टं ॥ भवद्भिः क्रन्दनादिकं चेष्टितं यद् गृहे तस्य तत् सर्व तद्विजम्भितम् ॥ Sil कियचेदं महीनाथ !, तस्य राज्ञो विचेष्टितम् । भवावर्तपुरे भङ्गैर्विचित्रैजम्भते हि सः ॥१॥ यतः प्रेषयति कापि, रतिहास्यभटौ समम् । पृष्ठतोऽरतिशोकाख्यौ, दुष्टः प्रेषयति क्षणात् ॥२॥ कापि हर्पभटं प्रेष्य, विषादं प्रेषयत्यसौ । क्वापि स्नेहं समादिश्य, द्वेषमादिशति क्षणात् ॥३॥ विश्रम्भभृत्यं व्यापार्य, तत्रैव तनुते भयम् । मदमादिश्य कुत्रापि, दैन्यमाविष्करोत्यसौ ॥४॥ मत्सरेणूंजुगुप्सादिस्वभृत्यैरपरैरपि । विश्वं विडम्बयत्येष, राजन् ! नानाविडम्बनैः ॥५॥ | अन्यच किं बहुक्तेन ?, त एव न विडम्बिताः । अनेन दुष्टभूपेन, ये निषूतिपुरीं गताः ॥६॥ ततोऽतिगुरुसंवेगभावितेन महीभृता । मोहचेष्टिनभीतेन, प्रणम्याभिहितो गुरुः ॥७॥ मिथ्यात्वोदधिमग्नोऽहं, भगवन्नुकृतस्त्वया । विधेहि करुणाम्भोधे !, प्रसादमधुनाऽपि तम् ॥८॥ मोहराजभटोझीतिमतिक्रान्तां सुखावहाम् । द्रुतं गच्छामि येनाहं, तां पुरी निर्वृतिं पराम् ॥९॥