________________
भावना प्रकरण
निगोद जीवानां स्वरूप वर्णनम्
गोला होति असंखा होति निगोया असंखया गोले।
एक्कको य निगोदो अणंतजीवो मुणेयव्वो ॥१३॥ असंख्येयानां साधारणजीवशरीराणां समानावगाहनावगाढानां समुदायो गोलक इत्युच्यते, अत एवाह-'होति निगोये त्यादि, अनन्तानां जीवानां साधारणमेकं शरीरं निगोद इत्यभिधीयते, ते चैवंभूता निगोदा एकैकस्मिन् गोलकेऽसंख्येया भवन्ति । एकैकश्च निगोदः अनन्तजीवः अनन्ता जीवा यत्रासावनन्तजीवो मुणितव्यः, एते च गोला द्विविधाः-सूक्ष्मा बादराश्च, तत्र सूक्ष्माः प्रत्येकमंगुला- | संख्येयभागमात्रावगाहिनोऽसंख्येयाश्चतुर्दशरज्ज्वात्मकेऽपि लोके निरन्तरं भवन्ति, बादरा अपि | वृहत्तरांगुलासंख्येयभागावगाहिनोऽसंख्येयाः पृथिव्यादिमात्राश्रिता भवन्ति, एते च उल्लिसेवालसूरणा
कादिरूपा मन्तव्याः, अत एवैते सर्वलोके न भवन्ति, मृत्तिकाजलाद्यभावे तेषामसम्भवाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगहनताप्रसंगादिति ॥ एते च निगोदजीवाः सूदमाः बादराश्चान्तमुहर्तायुष एव सम्भवन्ति, अस्य चान्तमुहर्तस्यासंख्येयभेदास्तत्र च षट्पंचाशदधिकावलिकाशतद्वयमानं क्षुल्लकभवग्रहणमप्यायुर्वहूनामेतेषां भवतीत्याह
॥११२॥