________________
श्रीउपदेशपदे
॥३९६॥
स्पन्दनो यः कदाचिजलेन प्लाव्यते, इतरस्त्वस्पन्दन इति । एवं दीपकोऽपि प्रकाशरूपो द्विविध एव स्थिरोऽस्थिरश्च ।। त सतताभ्यातत्र स्थिरोऽत्र तारार्कचन्द्ररूपोऽस्थिरश्च तृणगोमयकाष्ठाग्निकणप्रदीपरूपः । भावाश्वासद्वीपोऽपि चारित्ररूपो द्विविध साहरणम्एव-स्पन्दनोऽस्पन्दनश्च । तत्र क्षायोपशमिकचारित्ररूपः स्पन्दनः, अतिचारजलेन प्लाव्यमानत्वात् , क्षायिकचारित्ररूपस्त्वेतद्विलक्षण इति । भावप्रकाशदीपस्तु मतिज्ञानादिरूपः । तत्र स्थिरः केवलालोकरूपः, अस्थिरस्तु मत्यादिज्ञानचतुष्टयरूप इति । ततो यत्र गच्छे भावाश्वासद्वीपयोगो भावप्रकाशदीपयोगश्च समस्ति तत्र गच्छे मया गन्तव्यमिति भावः ॥ ९६२ ॥ तथा यद् मूकत्वविषये भवद्भिः पृष्टमासीत्तत्रेदमुत्तरं ब्रवीमि च भणाम्येव यदुचितं परिणतौ सुन्दरं स्यात् , इतरथा त्वनुचितं पुनर्न युक्तमेव वक्तुं मतिमतां 'जे' इति वचनालंकारे । अत्र हेतुः-यद्यस्मादिहलोके एषा कुठारी जिह्वा वर्त्तते । केषामित्याह-धर्मेतरतरूणां, धर्मः श्रुतचारित्ररूपः, इतरस्त्वधर्मस्तावेव तरवस्तेषाम् । तथाहिअसम्यक् प्रयुक्तैषा धर्मतरून् , सम्यक् प्रयुक्ताऽधर्मतरूश्छिनत्तीति ॥ ९६३ ॥ एवं यथैव भवानाह तथैव इत्येतदिति त्रुवतां तेषां मातापितृप्रभृतीनां वोधो जातः। 'धम्मपरिच्छाए पायसो नवरं'त्तिं नवरं केवलं धर्मपरीक्षायां प्रकृतायां सत्यामाभ्यां पृष्टः, यथा-प्रायशो वाहुल्यवृत्त्या मातापितृपूजाघातयोर्मध्येऽत्र जगति किं युक्तमुचितमत्यर्थ बाढमतिशयेनेत्यर्थः ॥ ९६४ ॥ एवमसौ ताभ्यां पृष्टः प्राह-पूजा युक्तेत्याहुः प्रायोऽन्य धार्मिकाः, अहं पुनर्बवीमि-अनेकान्तवादतस्तत्त्वं-अनेकान्तवादेन पूजाघातयोस्तत्त्वं व्यवस्थापनीयम् । अत्र हेतुः-व्यवहारनिश्चयाभ्यां द्विविधावेतौ
॥३९६॥ मातापितरौ यतो ज्ञेयौ वर्त्तते इति ॥९६५॥ व्यवहारनयमतमाश्रित्याह-व्यवहारतो व्यवहाराभिप्रायेण प्रसिद्धौर
BESLISSESEOSES