________________
यान्ति राजा चित्रकरः कविः ॥" इत्यादि वचनात् तथैतेऽपि पुत्रजन्माद्युत्सवाः प्रमोदहेतुत्वाद्धं गावसानत्वाच्च न परि|णामसुन्दराः ॥ ९५९ ॥ मालालुकाल्पभोगादिज्ञाततो मालायाः पुष्पस्रजोऽल्पो भोगो बहुमूल्याया अपि, आलुकायाच वार्घटिकाया अल्पमूल्याया अपि बहुर्भागः संभावितः । अतो मालालुकाल्पभोगाद्येव ज्ञातं दृष्टान्तस्तस्माद् दुःखकारणं वर्तते । अपेक्षा आलुकायाः स्थिरत्वसंभावनारूपा सतीति । यतः पठ्यते - " अनित्यताकृतबुद्धिलनमाल्यो न शोचते । नित्यताकृतबुद्धिस्तु भग्नभांडोऽपि शोचते ॥ १ ॥” तथा, धर्मी धर्मवान् दरिद्रकः अल्पारम्भपरिग्रहतया निरारम्भपरिग्रहतया वा दरिद्रः स्यादिहलोके, स एवातो दरिद्रादन्यथा ईश्वरः परलोके स्यात् प्राग्भवोपात्तपुण्यसंभारत्यात्तस्य । तथान्योऽपीह लोक ईश्वरः सोऽपि परलोकेऽन्यथा दरिद्र इत्यर्थः । आरंभपरिग्रहपरायणत्वेन प्राग्भवेऽनुपा| जितपुण्यत्वात् ॥ ९६० ॥ एवं सर्वप्रश्नोत्तरविधायी स मातापितृभ्यां भणित इत्येवं वैराग्यभावनया धर्मज्ञो वर्त्तसे त्वम् । तथापि धर्मज्ञत्वेऽपि सत्यस्माकं स्थितिमूकत्वाभ्यामुक्तलक्षणाभ्यामिहावसरे दुःखं मनोऽसमाधानलक्षणं करोषि । इत्येवमुक्तः स राजसूनुराह - अद्यापि गन्तव्यस्थानाभावान्न मया गतिः कृता, न पुनः कस्याश्चिदशक्तेरिति ॥ ९६१ ॥ गन्तव्यस्थानमेव दर्शयति-- गन्तव्यं मया स्वगत्या प्रव्रज्याप्रतिपत्तीरूपया गुरुजनस्य मातापितृलक्षणस्य धर्माचार्यस्य च | संगत दृद्धिहेतुर्यथा भवत्येवं गच्छे गुरुपरिवाररूपे । कीदृश इत्याह-इह दीवगशब्दस्य संस्कारद्वयसहनाद् आश्वासद्वीपकयोगिनि, आदिशब्दात् प्रकाशदीपकयोगिनि च नान्यादृशे गच्छे युक्तं गमनमिति । इहाश्वासद्वीपोद्विविधः - द्रव्यतो | भावतञ्च । तत्र द्रव्यतो जलधिजलमध्ये तथाविधोच्चभूभागलक्षणः । सोऽपि स्पन्दनोऽस्पन्दनश्चेति द्विविध एव । तत्र