________________
श्रीउपदेशपदे
॥३९२॥
शास्त्रार्थिनो वेदाध्येतारो ये ब्राह्मणास्तेषां किञ्चित् पुरमासीत् तत्र 'वणिजायण' त्ति केनचिद्' वणिजा ब्राह्मणा भूमि ब्राह्मणवयाचिताः। शुद्धभूमिग्रहे च शल्यादिदोषानुपहतभूमेरुपादाने कृते पादे शुद्धिमानीयमाने निधिश्चिरकालनिहित उद्ध
णिग्राजटितः । वणिक्कथनं वणिजा राज्ञो निवेदितम् , यथा देव! मया गृहपादशोधने क्रियमाणे निधिलब्ध आस्ते अग्रहो
ज्ञातानिनिघेरौदार्यातिरेकात् सत्यवादितया च राज्ञो वृत्तः । शिष्टे च कथिते राज्ञा मच्यादीनां, प्रज्ञापना तैः कृता, यथा न देव! नीतिरेषा निर्निमित्तमेव स्वकीयार्थपरित्याग इति ॥ ९४६ ॥ सुप्तोत्थितचिन्तनं सुप्तोत्थितेन राज्ञा चिन्तितमन्यदा 8 यथा न मया सुष्टु कृतं यन्निधिः सिद्धः सन्नुपेक्षित इति । ततः सर्वेषां मन्त्रिपुरोहितानां इच्छयाऽनुमत्या ग्रहणं निधेः कृतम् । ततस्तादृशि महत्यनर्थे प्रवर्तिते 'विग्घति विघ्न इष्टकलत्रविपत्त्यादिः सद्य एव कश्चिज्जात इति । मिथः परस्परं किमिदमित्थमिति वितर्के सर्वत्र प्रवृत्ते केवली कश्चिदागतः, ततस्तेन पृष्टे सति शिष्टं, यथा-कलिरेवावतीर्णस्तदोषादिदमित्थं जातमिति । ततो राज्ञा निधेस्त्यागः कृतः, भागस्य निजाभाव्यरूपस्य पुनर्ग्रह इति । यदत्र वेदार्थिब्राह्मणपुराश्रयणं शास्त्रकृता कृतं तदैवं ज्ञापयति वेदविद्याविशारदब्राह्मणवासितस्थाने न काचिदनीतिः प्रवर्त्तते, तथापि कलियुगावताराच्चतुराश्रमगुरुणापि राज्ञा स्ववचनविलोपनेन पुनर्निधिग्रहणमारब्धम् । विघ्नोत्थानेन सवितर्के लोके जाते केवलिना च स्वरूपे निवेदिते स्वसत्त्वाभ्यधिकतया नीतिमागतोऽसौ राजेति ॥ ९४७॥ एवमिह दुस्समेयं कलुसइ भावं जईणवि कहिंचि। तहवि पुण कज्जजाणा हवंति एएच्चिय जहेए॥९४८॥ ॥६९२॥ ____एवं प्रकृतराजादिवदिह भरतक्षेत्रे दुःषमा दुष्टकाललक्षणेयं प्रत्यक्षोपलक्ष्यमाणफला कलुषयति मलिनीकरोति, भावं