________________
श्रीउपदेशपदे
॥ ३८८ ॥
विहित इत्यर्थः, लोकोऽमात्यश्रेष्ठिप्रभृतिको निजनगरे । नवरं केवलं कश्चित् श्रेष्ठिपुत्रो न शक्ति उपशामयितुम् । कीदृशः सन्नित्याह- कर्म गुरुर्वहलमिथ्यात्वतमः पटलसमाच्छादितशुद्धबोधसम्पादकपरिणाम इति ॥ ९२३ ॥ सो इत्यादि । स श्रेष्ठपुत्रो लोकग्रहात् संसारमोचकनामकपाखण्डिकसंसर्गलग्नभ्रमाद् मन्यते हिंसामपि प्राणव्यपरोपणरूपां सर्वेषां तदन्येषामास्तिकानामेकान्ततोऽनभिमतां तथाविधां दुःखितसत्त्वगोचरां न नैव दुष्टां दारुणपरिणामां, किं तु कल्याणावहमेव । इति प्राग्वत् । कुत इत्याह- 'हिंसाणं सुहभावा' इति हिंस्यानां हिंसनीयानां हिंस्राणां च हिंसकानां सुखभावाच्छुभभावाच्च । तत्र हिंस्यानां हिंसाकालप्रवृत्तपीडानुभवेन प्राग्भवोपात्तासद्वेदनीय निर्जरणाद् भवान्तरे सुगतिलाभेन सुखभावः । अन्येषां च दुरन्तदुःखनिम्नगातस्तदुत्तारणकरणेन परोपकारसम्भवाच्छुभस्य सुकृतलक्षणस्य लाभः । इति निरवद्यमेव दुःखितस्य व्यपरोपणम् । तथा द्विधापि द्वाभ्यामपि हेतुभ्यां क्लेशोपार्जनमूर्च्छात्यागदुष्करत्वलक्षणाभ्यामर्थं त्वर्थं पुनर्दुर्देयं मन्यते । ततः सुगत्यर्थिनां निरूपितनीत्या हिंसैव कर्त्तुमुचिता, न पुनरन्यो धर्मो दानादिरिति ॥ ९२४ ॥ अप्रमादसारतया अप्रमादः प्रमादाभावः सारो यत्र तत्तथा तद्भावस्तत्ता तया निर्विषयं निर्गोचरं तथेति समुच्चये, जिनोपदेशमपि सर्वज्ञप्रज्ञापनामपि मन्यते, किं पुनः प्रज्ञापकान्तरोपदिष्टमर्थमित्यपिशब्दार्थः । कथमिवेत्याह — तक्षकफणरत्नगतं तक्षकस्य महानागस्य फणारलं तक्षकफणरलं तद्गतं करणीयत्वेन तद्विषयं, शिरसोऽर्त्तिः पीडास्तस्याः शमने उपदेशः शिरोर्त्तिशमनोपदेशस्तमिव । यथा केनचिच्छिरः पीडाकरालितेन कश्चिद् भणितो यथा महती मम शिरःपीडा समुद्भूता वर्त्तते, किं क्रियतामिति? तेन चोक्तम् — तक्षकफणरत्नालङ्कारो गले बध्यतां, येन सद्य एव पीडोपशमः सम्पद्यते ।
तैलपात्रीधारकज्ञातम् -
11 364 11