________________
वृक्षादिशतो वृक्षघटपटादिशब्देभ्यो यद् यस्मादविशिष्टा चैवात्र निम्बादिविशेषैरनालीदैव भवति बुद्धिरिति | प्राग्वत् । कीदृशीत्याह — उत्तरधर्म्मापेक्षा वृक्षस्योत्तरधर्मा मूलकन्दस्कन्धादयो जम्बूनिम्वादयश्च घटादीनां तु ताम्ररजतसीवर्णादयः, तानपेक्षते आकाङ्क्षते या सा तथा । यथैव हिंसादिशब्दाद् “हिंस्याद् न सर्वभूतानि” इत्यादिलक्षणात् । तन इदमर्यादापन्नं - यथा हिंस्यान्न सर्वभूतानीत्यादयः शब्दाः पदार्थवाक्यार्थादिप्रकारेण निराकाङ्क्षस्वार्थप्रतिपादका भवन्ति, तथा वृक्षादयोऽपि शब्दाः पदार्थवाक्यार्थमहावाक्यार्थैदम्पर्यविषयभावमापन्नाः श्रोतृप्रतीतिमविकलामाराधय
न्तीति । तथाहि - दूरे शाखादिमन्तं पदार्थमुपलभ्य कश्चित् कश्चित् प्रति ब्रूयात् 'अग्रे वृक्षस्तिष्ठति' इति । तस्य च श्रोतुः श्रत एव शब्दार्थः पदार्थः, अयं च वृक्षो भवन् किमाम्रो निम्बो वा स्यादिति चालनारूपो वाक्यार्थः, ततः | प्रतिविशिष्टाकारावलोकनेनात्र एव निम्बादिर्वायमिति प्रतिनियतः प्रत्ययो महावाक्यार्थः इत्थमेव निर्णयपुरः सरमाखाद्यार्थिना प्रवर्त्तितव्यमित्यैदम्पर्यमिति ॥ ८८५ ॥ उपसंहरन्नाह; -
कयमेत्थ पसंगेणं इमिणा विहिणा निओगओ णाणं । आणाजोगोवि इहं एसोच्चिय होइ णायवो ॥ ८८६ ॥
कृतं पर्याप्तत्र व्याख्याविधिकथने प्रसंगेन विस्तारेण, अनेन मण्डलीप्रमार्जनादिना विधिना नियोगतो नियमेन ज्ञानमागमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते । आज्ञायोगोऽपि सम्यग्ज्ञानसाध्योऽत्र व्याख्याने एप एवोक्ताचारपरिपालनारूपो | भवति ज्ञातव्यः ॥ ८८६ ॥ ज्ञानवांश्च यत्करोति तदाह;