________________
यथैतन्मासोपरि वृष्टिर्भविष्यति । 'दगगहत्ति' तद्वृष्ट्युदकाच्च पीताद् ग्रह उन्मादः संपत्स्यते लोकानां । 'सुवासं तो ' इति । ततः कियत्यपि काले गते सुवर्षं सुवृष्टिर्भविष्यति । तस्मिंश्च सुन्दरे सम्पन्ने सर्वं सुन्दरं भविष्यति । प्रज्ञप्तं तेन राजपुरतः ॥ ८४४ ॥ एवं कालज्ञेन कथिते राज्ञा निवेदना लोकस्य - 'पडहगहत्ति' पटहकप्रदापनेन कृता । तत उद| कस्य संग्रहो यततो यथास्थाम यथासामर्थ्य कृतः सर्वेणापि लोकेन । वृष्टिर्निरूपितमासोपरि संवृत्ता, अपानं तज्जलस्य । क्षीणे संगृहीते जले पाने प्रवृत्ते नव्यनीरस्य, ग्रह उन्मादरूपः क्रमात् प्रायो वाहुल्येन लोकस्य संवृत्तः ॥ ८४५ ॥ साम| न्तादीनामपि प्रचुरतरगृहीतादूपितजलानां तज्जलक्षये ढुक्कमुपस्थितं वर्ष दूषितवृष्टिनीरं, तेऽपि तत्पीतवन्त इत्यर्थः । द्रयं च पुराणपानीयस्यन्दसंग्रहो राज्ञोऽस्ति न पुनरन्यस्य कस्यचित् । ततो राजाऽग्रहिलतया यदा तेषां सामंतादीनां न कासुचिचेष्टासु मिलति, तदा तेषां मन्त्रणमभूत् - ' निवगहत्ति' । यथाऽयं नृपोऽस्मासु सत्सु राज्यसुखभागी भवति, अस्मन्मताननुवर्त्तकस्तु कियच्चिरं राज्यं करिष्यतीति गृहीत्वा वनीम एनम् । एवं मन्त्रयमाणानां तेषां मन्त्रिणो बुद्धेर्ज्ञा| नमभूदिति ॥ ८४६ ॥ ततः शिष्टे (ग्रं० १२०००) मन्त्रिणा नृपस्य नास्त्यन्य उपाय एतदनुवर्त्तनमन्तरेण राज्यजीवितव्ययो' रक्षणे इति तत्पुराणोदकमुदकं पिवता सता कृत्रिमग्रहश्च कृत्रिम एव ग्रहो दर्शितो, राज्ञा मिलनं कृतम् । ततस्तेषां मध्ये । इत्येतेषां तोपः प्रमोदो राज्ये स्थितिर्निश्चलतारूपा जाता । कालेन सुवर्षमभूत् । सर्वं ततो भद्रं संवृत्तम् ॥ ८४७ ॥ एएणाहरणेणं आयाराया सुबुद्धिसचिवेण । दुसमाए कुग्गहोदगपाणगहा रविखयधोति ॥ ८४८ ॥
एतेनाहरणेन आत्मा राजा वर्तते । स राजकल्प आत्मा सुबुद्धिसचिवेन शास्त्रानुसारिणी बुद्धिरेव सचिवस्तेन,