________________
प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । “बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणन्नहिं बहुगुणजुतं करेजा मु ॥ १ ॥” अत एवाह - आज्ञावित्तकः - आज्ञैव वित्तं धनं सर्वस्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्त्तव्य इति ॥ ८११ ॥ ननु च 'आगम सुय आणा धारणा य जीए य पंच'ए' इति वचनप्रामाण्याद् आचरितमपि प्रमाणमुक्तं, तत् किमुच्यते 'आज्ञावित्तक इह प्रमाणम्' इति हृदि व्यवस्थाप्याह;आयरणावि हु आणाविरुद्धगा चेव होति नायं तु । इहरा तित्थगरासायणत्ति तल्लक्खणं चेयं ॥ ८१२ ॥
आचरणापि तत्तदाचीर्णार्थरूपा हुर्यस्माद् 'दोसा जेण णिरुम्भंति जेण खिज्र्जति पुषकमाई' इत्यादिलक्षणाया आज्ञाया अविरुद्धिका चैवाविरोधवत्येव । तुशब्दोऽवधारणे भिन्नक्रमश्च । ततो भवत्येव ज्ञातमुदाहरणं कर्त्तव्येष्वर्थेषु प्रमा| णमित्यर्थः । विपर्यये बाधकमाह - इतरथा आज्ञाविरोधेनाचरणे सति तीर्थकराशातना भगवदर्हद्वचनविलोपलक्षणा सम्पद्यते । इतिः प्राग्वत् । तलक्षणमाचरणालक्षणं चेदम् ॥ ८१२ ॥
असढेण समाइन्नं जं कत्थति केणती असावज्जं । न निवारियमन्नेहिं य बहुमणुमयमेयमायरियं ॥ ८१३॥
नामायाविना सता समाचीर्णमाचरितं यद् भाद्रपदशुक्लचतुर्थीपर्युपणापर्ववत् कुत्रचित्काले क्षेत्रे वा क्रेनचित् संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिना सावद्यं मूलोत्तरगुणाराधनाऽविरोधि । तथा, न नैव निवारितमन्यैश्च तथाविधैरेव गीतार्थैः, अपितु बहु यथा भवत्येवं मतं बहुमतमेतद् आचरितमुच्यत इति ॥ ८१३ ॥