________________
श्रीउपदेशपदे
॥ ३६३ ॥
1
दुप्पसहृतं चरणं भणियं जं भगवया इहं खेत्ते । आणाजुत्ताणमिणं ण होंति अहुणत्ति वामोहो ॥ ८०९ ॥ दुःप्रसभान्तं दुष्षमापर्यन्तभागभाविदुः प्रसभनामकमुनिपुंगव पर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं यद्यस्माद् भगवता इह क्षेत्रे । आज्ञायुक्तानां यथासामार्थ्यमाज्ञापरिपालनपरायणानामिदं चारित्रं न भवत्यधुनैष व्यामोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावादिति ॥ ८०९ ॥
विपर्यये बाधकमाहः -
आणावज्झाणं पुण जिणसमयम्मिवि न जातु एयंति । तम्हा इमीए एत्थं जत्तेण पयहियवंति ॥ ८१०॥
आज्ञावाह्यानामुच्छृंखलप्रवृत्तीनां पुनर्जिनसमयेऽपि तीर्थकरविहारकालेऽपि न नैव जातु कदाचिद् एतच्चारित्रं सम्प नमिति । तस्माद् अस्यामाज्ञायां दुष्षमाकालेऽपि यलेन प्रवर्त्तितव्यमिति ॥ ८१० ॥ अत एवाहः
गंतेणं चिय लोयणायसारेण एत्थ होयवं । बहुमुंडादिवयणओ आणावित्तो इह पसाणं ॥ ८११ ॥ न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह- 'बहुमुण्डादिवचनतः ' "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ॥ १ ॥” इति वचनात्; एतद्वचनपरिभावनेन पार्श्वस्थादीन् दृष्टान्तीकृत्य नासमंजसे प्रवर्त्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित्
दुष्षमाकालेपिश्वरणत्वम्
॥ ३६३ ॥