________________
चौरज्ञा
तादि
श्रीउपदे- स्तेनकज्ञातमेव भावयति;
शपदे तेणदुगे भोगम्मी तुल्ले संवेगओ अतेणतं । एगस्स गहियसुद्धी सूलहि भेयम्मि सादेवं ॥ ८०३ ॥ ॥३६२॥ तह चित्तकम्मदोसा मुढे भोगसमयम्मि अणुतावो। एत्तो कम्मविसुद्धी गहणे दिवम्मि सुज्झणया८०४॥
इयरस्स गहण कहणा आमं सूलाए तस्स भेओ उ।अब्भुवगमणा गुहभेयवुब्भणगुत्तरण मो सम्म ८०५ ६ विम्हय देवयकहणा कयमिणमेएण भावओखवियं। संवेगा वयगहणं चोररिसी सुप्पसिद्धोति ॥८०६॥ ___ क्वचित् सन्निवेशे स्तेनद्विके द्वयोश्चोरयोर्भोगे मुषितद्व्यस्य तुल्ये प्रवर्त्तमाने संवेगाद् घिग् मां विरुद्धकाध्यासितमिति पश्चात्तापलक्षणाच्चौर्यप्रत्ययपापक्षपणे जातेऽस्तैन्यमचोरभावः संवृत एकस्य चौरस्य । कथमित्याह-कुतोऽपि निमि-5 त्तात् संजातशंकै राजपुरुषैर्गृहीतस्य कारणिकैस्तप्तमाषादिना शुद्धिः कृता । पुनरपि 'सूलहि भेयंति' शूलयाधिष्ठानस्याभिभेदे सादिव्यं देवतानुग्रहो वृत्त इति ॥८०३ ॥ तथा, चित्रकर्मदोषात् तत्प्रकारस्य चित्रकर्मणोऽपराधाद् मुष्टे मुषिते सति परकीयद्रव्ये भोगसमयेऽनुतापः पश्चात्तापो जात एकस्य । अत एव पश्चात्तापात् कर्मविशुद्धिश्चौर्यप्रत्ययकर्मप्रक्षालः । ततश्च राजपुरुपैहणे दिव्ये तप्तमाषादौ शुद्धिः संवृत्ता ॥८०४॥ इतरस्य द्वितीयस्य ग्रहणं कथना ग्रहणे सति कारणिकैः पृष्ठस्य कथना । कथमित्याह-आममावां चोराविति । ततः शूलया तस्य द्वितीयस्य भेदो जातः । तुः पुनरर्थः । ततः प्रथमस्य चौर्याभ्युपगमना चौर्यप्रतिपत्तिः 'विहितं मयापि चौर्यम्' इति । ततो गुदभेदेनारोपणं शूलायां
॥३६२॥