________________
श्रीउपदेशपदे
॥ ३३८ ॥
इत्थं देशविरतिमपेक्ष्याकरणनियमज्ञातान्यभिधाय सर्वविरतौ तद्वैशिष्ट्यमभिधित्सुराहः -
| देसविरइगुणठाणे अकरणणियमस्स एव सब्भावो । सङ्घविरइगुणठाणे विसिट्टतरओ इमो होइ ॥ ७२९ ॥
देशविरतिगुणस्थाने यावज्जीवं परपुरुषपरिहारलक्षणेऽकरणनियमस्योक्तलक्षणस्यैवं रतिसुंदर्यादिशीलपालनन्यायेन सद्भावः सम्भव उक्तः । देशविरतिगुणस्थानकेऽपि पापाकरणनियमः सम्भवतीत्यर्थः । सर्वविरतिगुणस्थानके यावज्जीवं समस्तपापोपरमलक्षणे विशिष्टतरको देशविरत्यकरणनियमापेक्षयाऽकरणनियमो भवति ॥ ७२९ ॥ अत्र हेतुमाहजंसो पहाणतरओ आसयभेओ अओ य एसोत्ति । एत्तो च्चिय सेढीए ओ सवत्थवी एसो ॥ ७३० ॥
यद्यस्मात्कारणात् स सर्वविरतिलक्षणः प्रधानतरकः अतिप्रशस्त आशयभेदः परिणामविशेषः । अतश्चास्मादेव परिणाम विशेषादेषोऽकरणनियमः प्रधानतर इति प्रकृतेन सम्बन्धः । इति प्राग्वत् । अत एवाशयभेदात् श्रेण्यां क्षपकश्रेणिनामिatri "अणमिच्छमीससम्मं” इत्यादिकर्मप्रकृतिक्षपणसिद्धायां ज्ञेयः सर्वत्रापि सर्वकर्मस्वपि तत्र तत्र गुणस्थानके क्षयमुपगतेष्वेषोऽकरणनियमः, यत्क्षीणं तत् पुनर्न क्रियत इत्यर्थः । कर्मप्रकृतिक्षयक्रमश्चायं कर्मस्तवशास्त्रप्रसिद्धो यथा - " अच्छमीससम्मं अविरयसमाइ अप्पमत्तंत्ता । सुरनरतिरिनिरयाउं निययभवे सबजीवाणं ॥ १ ॥ सोलसअट्ठेकेकं छक्केकेकक्कखीणमनियद्दी । एवं सुहुमसरागे खीणकसाए य सोलसगं ॥ २ ॥ बावत्तरिं दुचरिमे तेरसचरिमे अजोगिणो खीणो । अडयालं पयडिसयं खविय जिणं नेबुयं वंदे ॥ ३ ॥” ॥ ७३० ॥
अकरणनि
यमस्य सर्व
विरतौ वैशिष्ट्यम्
॥ ३३८ ॥