________________
एत्तो उ वीयरागो ण किंचिवि करेइ गरहणिजं तु । ता तत्तग्गइखवणाइकप्प मो एस विण्णेओ ॥ ७३१॥
"
इतस्त्वित एव अकरणनियमात् प्रकृतरूपात् वीतरागः क्षीणमोहादिगुणस्थानकवर्त्ती मुनिर्न नैव किञ्चिदपि करोति जीवहिंसादि गर्हणीयं त्ववद्यरूपं देशोनपूर्वकोटीकालं जीवन्नपि । तत् तस्मात् तत्तद्गतेस्तस्या गतेर्नारकतिर्यग्गतिरुपायाः क्षपणादिविकल्पः, तत्र क्षपणं निर्मूलमुच्छेदः, स चानयोरनिवृत्तिवादरगुणस्थाने त्रयोदशनामप्रकृतिक्षपणकाले सम्पद्यते । आदिशब्दात् पुनरनुदयरूपोऽनुबन्धव्यवच्छेदः । स च निवृत्त प्रकृतिगतद्वयप्रवेशानामद्याप्यप्राप्त क्षपकश्रेणीनां शालिभद्रादीनां वाच्यः । ( ग्रन्थ० ११००० ) एषोऽकरणनियमो विज्ञेयः । अयमत्र भावः - यथा नरकगत्यादिकर्मक्षयादिभिरनुदययोग्यतानीतं सन्न कदाचिदुदयमासादयति, तथाऽकरणनियमे संजाते न कदाचित् पापे प्रवृत्तिः | प्राणिनामुपजायत इति ॥ ७३१ ॥
| तह भावसंजयाणं सुवइ इह सुहपरंपरासिद्धी । सावि हु जुज्जइ एवं ण अण्णहा चिंतणीयमिणं ॥ ७३२ ॥
तथेति दृष्टान्तान्तरसमुच्चये । भावसंयतानां निर्व्याजयतीनां श्रूयते समाकर्ण्यते इह जिनप्रवचने सुखपरंपरा सिद्धि: -- प्रतिभवं विशिष्टसुखलाभात् पर्यन्ते निर्वृतिरिति । सापि सुखपरंपरासिद्धिर्न केवलं तत्तद्गत्यादिक्षपणम्, हुर्यस्माद्, युज्यते एवं पापाकरणनियमलक्षणात् प्रकारात् ; न नैवान्यथा एतत्प्रकारविरहेण । चिन्तनीयं विमर्शनीय| मिदमस्मदीयमुक्तम् ॥ ७३२ ॥ एतदेव भावयतिः -