________________
अथ चतुर्योदाहरणमाहः - घिग्जातिर्ब्राह्मणः सौमिलाः सोमिलनामा मुनिः कापि गुरुकुले वसति स्म । स च स्वभावादेवादानादिसमितावादानभाण्डमात्रनिक्षेपणानामिकायां समितावुपयुक्तः सदैव कृतप्रयत्तः समभवद् । एवं काले जति कदाचिद्गुरुणा सन्ध्यासमये भणितो यथा-भद्र ! प्रातग्रमगमनमुपस्थितमास्ते । तेन च गुरुगमनार्थं गुरोर्ग्रामस्य गमननिमित्तमुद्ग्राहणा पात्रवस्त्रादिप्रगुणीकरणरूपा कृता । तु शब्दः समुच्चये, भिन्नक्रमश्च । ततो गमने च प्राप्ते कुतोऽपि निमित्तदोषाद गुरोर्निवर्त्तनमभूत् ॥ ६४० ॥ ३३ ॥ तथा मुख सम्यक् प्रत्युपेक्ष्य प्रमार्ण्य च यथास्थानमुपकरणमिति | प्रेरणा गुरुणा मधुरया गिरा कृता । तेन चाकस्मादेव कियत्संपन्नाऽक्षमापरिणामेन किमत्रोपकरणनिक्षेपस्थाने सर्पस्तिष्ठ| तीत्येवं प्रतिभणितो गुरुः । ततो मुहूर्त्तात् संविग्नो भावयति चित्तेन सम्पन्नतीत्रपश्चात्तापः । कथमित्याह - 'हा' इति रोदे, अयुक्तमनुचितं गुरून् प्रति भणितं मया, अविकल्पकरणीयादेशत्वाद् गुरूणाम्, इत्येवं संविग्नः सन् सुरया गुरो| रधिष्ठायिकया देवतयाऽनुगृहीतः ॥ ६४२ ॥ ३४ ॥ कथमित्याह - आदानभाण्डमात्रनिक्षेपस्थानस्थितस्य सर्पस्य यद्दर्शनं तेन । ततः सुमुतरं तद्दर्शनात् तीव्रश्रद्धासम्पन्नो दण्डकग्रहनिक्षेपे दण्डकानां विचारभूम्यादेरागत हस्ताद्ग्रहे निक्षेपे चामिमहो मयैवेदं कर्त्तव्यमिति प्रतिज्ञावान् संजातः सर्वगच्छे ॥ ६४२ ॥ ३५ ॥ ततः 'अन्नोन्नागम'त्ति अन्येषां च साधूनां | स्वगच्छयुतानां चागमस्तत्र गच्छे नित्यं समभूत् । स चाभ्युत्थानादियोगपरितुष्टः - अभ्युत्थानपादप्रमार्जन दण्डकग्रहत| त्स्थाननिक्षेपासनप्रदानादिना योगेन साधुसमाचाररूपेण परितुष्टः पीतपीयूष इव परां प्रीतिमागतः सन् यलेनादरेणाध| लादुपरि च दण्डनिक्षेपस्थानस्य या प्रमार्जना तस्यां समुद्युक्तो जातः । यश्चात्राधस्तादुपरीति व्यत्ययेनानयोः पदयोरुप