________________
श्रीउपदेशपदे
॥ २९१ ॥
20%
पानका शुद्धिलक्षणां स देवः । नापि च नैव प्रेरयति स साधुस्तम् ॥ ६२८ ॥ २१ ॥ इत्येवमेकवारां द्वितीयां च वारामुपदिष्टपानकार्थं हिण्डितस्तत्र सन्निवेशे । न च लब्धं तत् । 'लद्ध' त्ति लब्धं च तृतीयवारे । वारशब्दस्येह पुल्लिंगत्वादेवं निर्देशः । ततो 'अणुकंप'त्ति अनुकम्पया दयया त्वरमाणो गतश्च स नन्दिषेणसाधुस्तत्सकाशं तस्यैव समीपं पुनरिति ॥ ६२९ ॥ २२ ॥ गतं सन्तं तं खरपरुषनिष्ठुरैर्वाक्यैराक्रोशति शपते स ग्लानको ग्लान एवानुकम्पनीयतां गतो रुष्टो दर्शितभ्रुकुटीभङ्गादिकोपविकारः । कथमित्याह - हे मन्दभाग्य तुच्छीभूतपुण्यस्कन्ध ! फूत्कृत अत्यन्तासारतया तुषादिवत्फूत्कारयोग्य ! तुष्यसि सन्तुष्टो भवसि त्वं नाममात्रेण नाम्नैव केवलेन वैयावृत्त्यकरोऽहमित्येवंरूपेण ॥ ६३० ॥ २३ ॥ 'साहुवगारित्ति अहं नाम' इति साधूपकार्यहमित्येवंरूपनाम्नाऽऽढ्यः, तथा समुद्दिश्य भोजनं कृत्वा आगत इति, एतस्यां भवतैवावलोक्यमानायामवस्थायां त्वमास्ते भक्तलोभवान् सन्निति ॥ ६३१ ॥ २४ ॥ अमृतमिव पीयूषमिव मन्यमानस्तां परुषां गिरं तु परुषामपि गिरं "जो सहइ उ गामकंटए अक्कोसवहारतज्जणाउ य । भयभेरवसद्दस प्पहासे समसुहदुक्खस य जे सभिक्खु" इत्यादिसूत्रवासितान्तः करणत्वात् स नन्दिषेणः ससंभ्रातः ससंभ्रमः सन् चलनगतः क्षमयति, यथा - क्षमस्व ममैकमपराधं न पुनरेवं करिष्ये, धावति च तं साधुं स्वमललिप्तं स्वकीयविष्ठामूत्रलक्षणमलोपदिग्धमिति ॥ ६३२ ॥ २५ ॥ वभाण चोत्तिष्ठत यूयमितः स्थानाद् व्रजाम इति । तथा करिष्यामि वसतिकामध्यप्राप्तं सन्तं भवन्तं 'जहा हु'त्ति यथा चिरेण शीघ्रमेव 'होहिह'त्ति भविष्यथ नीरोगा यूयम् । ततो ब्रवीति — ग्लानो न तरामि गन्तुमितः स्थानात् क्वचिदपि । 'जे' इति वाक्यालंकारार्थः ॥ ६३३ ॥ २६ ॥ नन्दिषेणः प्राह-आरोह समारूढो भव पृष्ठौ
संग्रह - गाधार्थ:
॥ २९१ ॥