________________
गृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कज्जवोज्झनं चैव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ॥ ५६६ ॥ १७ ॥ आगमनं निजनगरे । ततो राजदर्शनम् । आनितम् त्वया द्वीपान्तरात् किमिति राजप्रभे गोवरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य ।। ५६७ ॥ १८ ॥ समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रलानि व्यक्तीभूतानि । अतश्च विक्रयेण | रजानां परिभोगोऽन्नादिगोचरः समजनि । एवं च लोकपूज्यत्वं तथा लोकोपहासाव धीरणेन यो निश्चयः कार्यगतस्तस्मात्प्रासमेतेन भव्यमत्त्वेन कल्याणयोग्यजीवेनेति ॥ ५६८ ॥ १९ ॥ पट्टकसदृशी आज्ञा, एवमादीहापि धर्मविषये योजनीयमेव निःशेषं निजवुद्धमा ज्ञायकेन सता यथाविषयं यथायोगमिति । तथाहि पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः, उपहासस्थानीया अन्यजनवादाः, ग्रहित्स्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रत्नस्थानीयो धर्म इति ॥ ५६९ ॥ २० ॥ | रेशानां गोवरवणिक्मदृशानां धर्मो दातव्यः परहितोद्यतेन गुरुणा । इह जगत्यात्मंभरित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह तदात्मंभरित्वमनुचितमीश्वराणामिव ॥ ५७० ॥ २१ ॥ एवं लव्धतदभिप्रायया श्रीमत्या नीता व्रतिनीसमीपं साध्वीमकाशम् । कमित्याह-प्रतिश्रयं वसतिम् । कमित्याह - साधयित्वा वृत्तान्तं न कल्पते मम व्रतदानं कत्तुं, किन्तु प्रवर्त्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवर्त्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥ ५७१ ॥ २२ ॥ दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा मोमायाः परिणतञ्चैव ॥ ५७२ ॥ २३ ॥ ततो विधिनाऽणुव्रतग्रहणं पालनमनुवर्त्तनं तस्य । ततोऽप्रीतिकं गुरुजनस्य । भणितं