________________
श्रीउपदेशपदे ॥ २८१ ॥
वभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्वं योजनीयमिति ॥ ५५९ ॥ १० ॥ इत्थं झुंटणदृष्टान्तं सोपनयमभिधाय प्रस्तुते योजयति-न नैवेदृशानां झुंटणवणिक् सदृशानामेष धर्मो दातव्यः । किमर्थमित्याह - तेषामेव तु धर्म । ग्रहीतुमुपस्थितानामेव हितार्थम् दृष्टान्तमाह – गाढग्लानादीनां प्रबलज्वरादिरोगोपहतानां स्नेहादियुत इव घृतगुडादिसम्मिश्रित इवाहारः सूपोदनादि ॥ ५६० ॥ ११ ॥ सोमाह ब्रवीति नेदृशा एव झुंटणवणिक्कल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, अन्ये केचन भवन्ति । अत्र च गोबरवणिजा दृष्टान्तः ॥ ५६१ ॥ १२ ॥ तमेव दर्शयति- विश्वपूर्वां नगर्यां प्रकटं प्रसिद्धो दत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता दारिद्र्यमुत्पन्नं तस्य । ततः 'अप्पाहियसरणं'ति परलोकप्रयाण - स्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् । अप्पाहियमेव दर्शयति- अभेद्ये मंजूषादौ स्थाने ॥ ५६२ ॥ १३ ॥ या ताम्रकरण्डी तस्यां पट्टकः समस्ति । तत्र च गोतमद्वीपविशेष एव 'कज्जवोज्झना' उत्कुरुटिकाकचवरप्रक्षेपः कार्यः । तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोवरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते ॥ ५६३॥१४ ॥ ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चान्नगर्यामेवमाह सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिरस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इतिकृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥ ५६४ ॥ १५ ॥ शब्दयित्वा भणितो गृह्णीत विभवमिति । लक्षग्रहणं तु ततस्तेन दीनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिज्जामग' त्ति गोतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥ ५६५ ॥ १६ ॥ एवं च विहिते हसति लोकः अहो !
संग्रहगाधार्थ:
॥ २८१ ॥