________________
NAGARC
पुत्रम्तस्यां समभूत् । इत्येवं ग्रजति कालः । तत्र दक्षिणमथुरायामेवान्यदा तु कालान्तरे पुनः 'पइरिक' विजने सम्पन्ने
एकत्र स्थविरागृहे 'मुसणा य' त्ति सर्वस्वमोपणं तया कृतम् चः पूरणे ॥ ५२१ ॥१॥ नो नैव 'सह' ति श्रावण ६/किशित् कृतम् । ज्ञातं च स्थविरया, यथा-मदीयं गृहं दुर्ललितगोष्ठ्या मोपितुमारब्धम् ततः 'थेरिपायवडण' त्ति 15
स्थविरया पादपतनव्याजेन मा मुप्णीत मदीयं गृहमिति भणन्त्या पादस्पर्श क्रियमाणे लाञ्छना चिहकरणं दुर्ललितगो
धीपादानां तालतललग्नेन मयूरपित्तरसकेन मयूरवसयेत्यर्थः। तत्र च स्थविरागृहद्रव्ये विभज्यमाने श्रावकभागाग्रहणं|| 15 स्थविरागृहमोपस्य न तेन भागो गृहीत इत्यर्थः। तथा गोष्ठीपरिवर्जनाभावः-तां गोष्ठी परिवर्जयितुं. परिणामस्तस्य
ममजायत, यथा-न सुन्दरपरिणामेयं गोष्ठी, ततो मोक्तुमुचितेति ॥ ५२२ ॥ २॥ स्थविरया च प्रभातकाले राजकधनमकारि । राज्ञा च गोष्ट्याहानं दुर्ललितगोष्ट्याकारणं व्यधायि। अगमश्च नागमनं च श्राद्धस्य श्रावकपुत्रस्य समजायत । राजकुले । पपृच्छे च राज्ञा किमेतावन्त एव भवन्त उतान्योऽपि कश्चिद् अस्ति ? ततो विशेषकथने दुर्ललितगोष्ट्या | कृते आहानं श्रावकमुतस्य संजातम् आगतश्चासावचिहको मयरपित्तचिहरहितो नवरं केवलम् ॥ ५२३ ॥३॥ प्रच्छनमचिक्तिभावविपयं राज्ञा कृतं, यथा-किंनिमित्तं भवानचिद्वितः ? तस्य च चिन्ता समुत्पन्ना किं निमित्तं कथयामि नवेत्येवंरूपा । एवं च बद्धमौने तत्र राज्ञा भणितं-गोष्ठी कदेयं समाश्रिता त्वया ? श्रावकपुत्रः प्राह-अद्यैव । राजा-किमिति-कस्मात् समाश्रिता ? श्रावकपुत्रः प्राह-एवमेवानाभोगादेवेत्यर्थः। ततश्चोरिकाप्रश्ने-किमिति भवद्भिः सविरागृहे रात्री चौर्यमाचरितमित्येवंरूपे राज्ञा कृते क्षुभिताः क्षोभमागताः सर्वेऽपि दुर्ललितगोष्ठीवर्तिनस्ते, न पुनः
फरकफरक
NCY