________________
हेतुमाह-सज्ञानश्रद्धानात् सज्ज्ञानादविपर्यस्ताद् व्रतगतहतुस्वरूपफलपरिज्ञानात् श्रद्धानाच्चेदमित्थमेवेति प्रतीतिरूपात् ।। नस्य प्रतपरिणामस्य यद्यस्माद् भावतस्तत्त्ववृत्त्या भावः समुत्पादः। इदमुक्तं भवति-अवतपरिणामस्तत्त्व विषयादज्ञानादश्रद्धानाच जीवानामस्वभावभूतः प्रवर्त्तते, इति नासौ धीरोदारगुरुक इति चालयितुमपि शक्यते । व्रतपरिणामस्त्वेतद्विपरीत इति न चालयितुं शक्यः ॥ ५११॥ एतदेव भावयति; जाणइ उप्पण्णरुई जइ ता दोसा नियत्तई सम्मं । इहरा अपवित्तीयवि अणियत्तो चेव भावेण ॥५१२॥
जानाति हेतुतः स्वरूपतः फलतश्च दोपं जीवहिंसादिरूपं, तत उत्पन्नरुचिः समुन्मीलितश्रद्धानः पुमान् मिथ्यात्वगोहोदयविगमाद् यदि चेत्, ततो दोपाद् निवर्त्तते सम्यग मनःशुद्धिपूर्वकम् । इतरथा ज्ञानश्रद्धानाभावे कुतोऽपि लाभादिकारणादप्रवृत्तावपि दोपेऽनिवृत्तश्चैवानुपरत एव भावेन परमार्थेन । यथा दाहकशक्तिव्याघाताभावे कुतोऽपि बैगुण्याददद्वन्नपि दहनस्तत्त्वतो दाहक एव, एवं ज्ञानश्रद्धानाभावे दोपनिवृत्तावपि जीवो दोपेष्वनिवृत्त एव दृश्यः, की दोपगतेः कस्याश्चिदनुपघातादिति ॥ ५१२ ॥ पुनरप्येतदेव समर्थयन्नाह;
जाणंतो वयभंगे दोसं तह चेव सदहंतो य । एवं गुणं अभंगे कह धीरो अण्णहा कुणइ ? ॥५१३॥ है। जाननबनुध्यमानो तभङ्गे प्रतिपन्नत्रतविनाशे दोपं नरकपातादिलक्षणं, चैवेति समुच्चये, श्रद्दधानश्च श्रद्दधान एव;
एवं जानानः प्रधानश्च गुणं स्वर्गादिलाभरूपम् अभङ्गे व्रतस्य कथं धीरः सात्त्विकोऽन्यथा कुरुते ? प्रतिपद्य व्रतं तस्य नन कुरत इति भावः ॥ ५१३ ।। कुतः। यतः
-