________________
श्रीउपदेशपदे
॥ २४४ ॥
पन्नः, न पुनरितरस्य यमुनराजर्षेस्तत्क्षणमेव प्रतिपन्नोदग्रप्रायश्चित्तस्य । यदि नामैवं ततः किमित्याह - कृतप्रतीकारचायं दोषलवो न फलति न विपच्यते । विषं स्थावरादिभेदभिन्नमत्रार्थे आहरणं दृष्टान्तः ॥ ४६७ ॥ तदेव भावयतिः
मारइ विसले सोवि हु अकयपडीयार मो णउ बहुपि । कयपडियारं तं चिय सिद्धमिणं हंत लोएवि ॥४६८॥
मारयति च्युतजीवितं करोति विषलेशोऽपि हु, किं पुनः प्रभूतं तदित्यपिशब्दार्थः, 'अकयपडियार'त्ति अकृतप्रतीकारोऽविहित मंत्रतंत्रप्रतिविधानो 'मो' इति पूर्ववत् । न तु न पुनर्वह्नपि कृतप्रतीकारं तदेव विषं मारयति । सिद्धं प्रतीतमिदं हन्त लोकेऽपि पृथग्जने, किं पुनः शास्त्रे, इत्यपिशब्दार्थः ॥ ४६८ ॥
प्रतीकारमेव भावयति ;
मंतागयरयणाणं सम्मपओगो विसम्मि पडियारा । आणेसणिज्जभिग्गहरूवा एते उ दोसविसे ॥ ४६९ ॥ मंत्रा गारुडशास्त्रप्रसिद्धाः, अगदा औषधानि, यथा- "मरिचं निम्बवीजानि सैन्धवं मधुना सह । घृतपीतोऽगदोहन्ति विषं स्थावरजङ्गमम् ॥ १ ॥ रत्नानि सर्पशिखामणिप्रभृतीनि । ततस्तेषां मंत्रागदरत्नानां सम्यक् प्रयोगो यथावद् विनियोजनं विषे प्रतीकाराः । तथा, आज्ञा सर्वविद्वचनोपयोगरूपा, एषणीयमाधाकर्मादिदोषविकलमन्नपानवस्त्रपात्रादि, अभिग्रहा द्रव्यक्षेत्रकालरूपाः, ततस्ते रूपं येषां त आज्ञैषणीयाभिग्रहरूपा एते तु प्रतीकाराः सम्यक् प्रयुक्ता
अपराध
पश्चात्तापेलाभसाम
र्थ्यम्.
॥ २४४ ॥