________________
-
मयते मयिच्याः को गर्भतः कर्म विहाय पूर्वम् ? ॥३॥" यच्च गण्डपीडाधिसहनतुल्यं शीलमुक्तं तदपि न घारु, गण्डपीडाप्रतीकारस्य तथाविधरागद्वेपयोरभावेन प्रवृत्तत्वात् । वस्तिनिरोधपीडाप्रतीकारस्य च संसारमूलतीवकामरागमू
लत्वेनात्यन्तदुर्वृत्तत्वाद् न किञ्चित् तत्प्रतीकारयोः साम्यमस्ति । तथा चार्पम्-"मूलमेयमहम्मस्स महादोससमुस्सयं । 13 तम्हा मेहुणसंमगि निग्गंथा वज्जयंति ण" ॥१॥ यच्चोक्तं नास्त्यप्टमी पृथिवीति, सापि शठोक्तिरेव, संसारमयमसादरममन्यमान एवेत्थं वक्ति । नहि संसारभीरवोऽन्यतरनरकपृथ्वीदुःखमप्यनुमन्यन्ते, किं पुनः सर्वपृथ्वीप्रभवमिति ।
यच मीमांसकचनापौरुषेयत्वमु प्यते, तदपि सुधीभिर्नेष्यत एव । तथा हि-उच्यत इति वचनं पुरुपव्यापारानुगतं | रूपमत्य, कथं तक्रियाया अभावे तद् भवितुमर्हति ? । न चैतत् केवलं क्वचिद् वनादुपलभ्यते । उपलब्धावपि क्वचिददृष्टवक्त्राराक्षा न निवत्तते । यच्चेश्वरकारणिकैरीश्वरकर्तृकं जगदिति प्रोच्यते । तदप्युच्चावचमेव । ईश्वरो हि परैरुत्पतिविकलः कल्प्यते । न च तादृशात् किश्चित् कार्यमुपपद्यते । यथोक्तम्-"नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः। 5/गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥१॥” इति ॥ ४३६ ॥
इत्थमकालं कालं च वचनौपधप्रयोगस्य प्रतिपाद्य दृष्टान्ततयोपन्यस्तं सदोपधमधिकृत्य कालमुपदिशन्नाह;दोसावेक्खा चेवं सम्मं कालो सदोसहगओवि । कुसलेहिं मुणेयबो सइ वेज्जगसत्थनीईए ॥ ४३७ ॥
दोपापेक्षया इह दोपा वातपित्तश्लेप्मप्रकोपप्रभवा ज्वरातीसारादयो रोगा मृदुमध्याधिमात्ररूपास्तेपामपेक्षा च तानपश्येत्यर्थः, एवं वचनौषधप्रयोगवत् सम्यक् कालः प्रयोगयोग्यः सदौपधगतः स्निग्धोष्णादिसुन्दरौपधोपजीवनारूपः,
RAKERACTICESCERA
-
355552