________________
| मूड़ंगलियारक्खणगयचित्तो हत्थिणा समुक्खित्तो । मिच्छादुक्कडसंवेगवुडिओ गतिदुगक्खवणं ४२७॥७ वैमाणियसुहमाणूससुद्धाचारपरिपालणाणिरओ। सत्तट्ठजम्ममज्झे चक्की होऊण संसिद्धो ॥ ४२८ ॥८॥ देवो नामानगारः साधुरेक आसीत् । कीदृश इत्याह- कर्मगुरुः प्रवलचारित्रमोहः शीतलः शिथिलो विहारेण साधुमामाचारीरूपेण । ततो निर्द्धधसो मूलगुणोत्तरगुणातिचाराभीरुः सन् इत्यतोऽपराधाद् मृत्वा भ्रान्तः पर्यदितः संसारकान्तारे इति ॥ ४२१ ॥ १ ॥
एतदेव भावयितुमाह- शीतलविहारत उक्तरूपात् खलुर्वाक्यालंकारे, भगवदाशातना तीर्थकरलाघवानयनरूपा | नियोगेन निश्चयेन सम्पद्यते । शीतलविहारेण हि तेषु तेषु प्रमादस्थानेषु समापद्यमानं साधुमालोक्य तथाविधलोकैर्नूनमयमसमंजसरूपो व्यवहार एतच्छास्त्रकारैरेव निरूपित इति मनसि सम्प्रधार्य परिभावयन् भगवति जिने भृशमवज्ञाका - रकस्तानि तान्याशातना पदानि समाचरति, इत्यतः शीतलविहारिणः साधोः स्वयमेवाज्ञोल्लंघनहेतुभावाद् नियतमेव भगवदाशातना जायते । ततो भगवदाशातनातो भवः संसारोऽनन्तोऽपरिमाणः क्लेशबहुलः शारीरमानसवाधाभिभूतो भवति यतो भणितमागमे ॥ ४२२ ॥ २ ॥
तदेव दर्शयति - तीर्थकर प्रवचनश्रुतं तत्र तीर्थकरञ्चतुर्वर्णश्री श्रमण संघप्रसूतिहेतुः पुरुषविशेषो वृषभादिः प्रवक्ति वस्तुतत्त्वमिति प्रवचनं संघः श्रुतं द्वादशाङ्गम्, आचार्य युगप्रधानं, गणधरं तीर्थकर शिष्यप्रधान शिष्यरूपं, महर्द्धिकं