________________
अवयारवियारम्मी अणुभूए जं पुणो तदभासो । होइ अहिलसियहेऊ सदोसहंजह तहेसोवि॥३९१॥ । अपचारे कर्मव्याधिचिकित्मारूपस्य प्रागादेयतया परिपालितस्य सम्यग्दर्शनादेर्गुणस्य साधुप्रद्वेपादिना पश्चाद् विनाशने मति, यो विकारो दुर्गतिपातरूपस्तत्रानुभूते तत्तद् विडम्बनासहनेन यद्यस्मात् कारणात् पुनर्जन्मान्तरे तदभ्यासस्तस्य पूर्वभवाराधितस्य सम्यग्दर्शनादेः, तस्य "खाओवसमिगभावे दढजत्तकयं सुभं अणुट्ठाणं । परिवडियं पि हु जायइ पुणोवि तन्भाववुद्धिकरं ॥१॥” इति वचनप्रामाण्यात् कथञ्चिद् लब्धस्य पुनरनुशीलनमभ्यासो भवत्यभिलपितहेतुरशुभानुवन्धव्यवच्छेदकारणम् । दृष्टान्तं तदुपनयं चाह-सत् प्रस्तुतव्याधिनिग्राहकत्वेनास्खलितसामर्थ्यमौपधमुक्तरूपं यथा तथा एपोऽपि तदभ्यासः । तथाहि-यथाऽऽतुरस्य कुतोऽपि प्रमादात् क्रियापचारे सञ्जाते, अनुभूते च तत्फले, पुनस्तक्रियाभ्यास एव व्याधिव्यवच्छेदाय जायते, तथा प्रस्तुतक्रियापि तथाविधप्रमादासेवनादपचारमानीता सत्यपचारविपाकानुभवानन्तरमभ्यस्यमानाशुभानुवन्धव्यवच्छेदफला जायत इति ॥ ३९१॥ __ अयं चार्थः कथञ्चित् प्रागेव उक्त एवास्ते, इति तं प्रस्तुते योजयन्नाह;पडिवंधविचारम्मिय निदंसिओचेवएसअथोत्ति। ओसहणाएण पुणो एसोच्चिय होइ विणणेओ॥३९२ ,
प्रतिबन्धविचारे च "पडिबन्धोवि य एत्थं सोहणपंथम्मि संपयदृस्स” इत्यादिग्रन्थेन प्रागभिहिते पुनर्निदर्शितश्चैव प्रकाशित एव एषोऽर्थो यो "अवयारवियारम्मि" इत्यादिना ग्रन्थेनोक्तः। इति वाक्यपरिसमाप्तौ । यद्येवं, पुनर्भणनम