________________
श्रीउपदेशपदे
॥२२४॥
नाकुशीलसाधुयोग्यप्रमादस्थानपरिहारवतामपि, किंपुनः सम्यगदर्शनादिशेषगुणभाजामित्यपिशब्दार्थः, अन्तरं प्रति- शुभाशुभापतितप्रस्तुतगुणानां पुनर्लाभव्यवधानं समये जिनागमे भणितं निरूपितम् । कीदृशमित्याह-अनन्तकाला, यथोक्तं- नुवन्धवि. “कालमणंतं च सुए अद्धा परियट्टओ य देसूणो। आसायणबहुलाणमुक्कोसं अंतर होइ॥१॥" स पुनरनन्तकाल उप- चारतापद्यते, एवमशुभानुवन्धस्य रौद्रतायां सत्यामिति । नवश्यवेद्यमशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लन्ध्या कियकालव्यवधाने कश्चिदन्यो हेतुरस्तीति ॥ ३८५॥ __एतदेव भावयति; गंठीओ आरओवि हु असई बंधोणअण्णहा होइ। ता एसो वि हु एवं णेओ असुहाणुबंधोत्ति ॥ ३८६॥ है __ ग्रन्थेरुक्तरूपादारतोऽपि तस्मिन्नभिन्नेऽपि सति, किं पुनर्भिन्नग्रन्थौ, अशुभानुबन्धतोऽनन्तसंसार इत्यपिशव्दार्थः, असकृद् अनन्तवारान् वन्धो ज्ञानावरणादीनां कर्मणां स्वीकारः, न नैवान्यथा शुभानुबंधं विना भवति, अनुरूपकारणप्रभवत्वात् सर्वकार्याणाम् । तत् तस्मादेषोऽप्यसकृबन्धो, न केवलं यतोऽसौ प्रवृत्त इत्यपिशब्दार्थः, हुः स्फुटम् , एवमशुभानुबन्धमूलत्वेन ज्ञेयोऽशुभानुवन्ध इति, कार्यकारणयोर्मुद्घटयोरिव कथंचिदभेदात् । तस्मात् कारणकृतस्य कार्यभूतस्य चाशुभानुबन्धस्य त्रोटने यत्नो विधेय इति ॥ ३८६ ॥
॥ २२४॥ अथ परमतमाशंकमानमाह;
ROSESSIOISASTESSO