________________
+NCATECHNICNICANCE
(तुल्लाए किरियाए अभव-दूरभवमाइजीवाणं । धम्मट्ठाणविसुद्धी एमेव हवेइ इट्ठफला ॥ ३६७ ॥
तुल्यायामेय क्रियायां चैत्यवन्दनास्वाध्यायसाधूपासनादिरूपायामभव्यदूरभव्यासन्नभव्यादिभेदभाजां जीवानां धर्मस्थानविशुद्धिर्विधीयमानधर्मविशेपनिर्मलता एवमेव चित्रकर्मवत्, भूमिकाशुद्धौ शुद्धबोधिलाभलक्षणायां सत्यामित्यर्थः, भवतीष्टफला निष्कलंककल्याणलाभप्रयोजना, अन्यथा तद्विपर्यय एवेति ॥ ३६७॥ ___एतदेव परमतसंवादेनाह:
अज्झप्पमूलबद्धं इत्तोणुट्ठाणमो सयं विति । तुच्छमलतुल्लमएणं अण्णेवज्झप्प सत्थण्णू ॥ ३६८ ॥ | इहाध्यात्मलक्षणमित्थमवसेयं-"औचित्याद् वृत्तयुक्तश्च वचनात् तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः॥१॥इति । ततोऽध्यात्ममेव मूलं तेन बद्धमायत्तीकृतमध्यात्ममूलबद्धम् , अतो भूमिकाशुद्धावेवानुष्ठानस्येष्टफलत्वाद्धेतोर्यदनुष्ठानं परमार्थतस्तदनुष्ठानं ब्रुवते तुच्छमलतुल्यमसारशरीरलग्नमलसदृशमन्यदध्यात्ममूलबंधविक
अध्यात्मशास्त्रज्ञाववन्तीति यदेवाध्यात्मवन्धप्रधानमनुष्ठानं तदेव भवव्याधिक्षयकरणतया तत्त्वतोऽनुष्ठानम् । तद्विलक्षणं च शरीररूढरजोराशिव मालिन्यकारितयाऽत्यन्ततुच्छमन्येऽपि योगशास्त्रविदो विदुरिति ॥ ३६८॥
इपं मूलगापाऽम्मरसमीपस्थेषु चतुर्पप्यादर्शपुस्तकेषु नास्ति, टीकाग्रन्यानुसारेण तु पदानि विविच्यानगाथारूपेणानुमायसंदधेयं गाथा. अतएव कोष्ठके दशा।