________________
श्रीउपदे- 12 'अन्नोन्नभित्तिजवणिगकिरिया' इति अन्योऽन्यं परस्परभित्त्योश्चित्रयितुमारब्धयोर्जवनिकाक्रिया विहिता मध्ये काण्ड
भूमिशुद्धिशपदे ४ पटस्थापनेनादर्शनं कृतमित्यर्थः। ततः षण्मासतस्तु षण्णां मासानां पर्यन्ते एवैकेन विमलनाम्ना चित्रकारेण निर्मापणं
चित्रकरो
दाहरण ॥२१९॥
चित्रस्य कृतम् । अन्येन प्रभाकरनाम्ना भूमीकर्मचित्रभूमिकानिष्पत्तिरूपं सुपरिशुद्धमिति ॥ ३६३ ॥२॥
राजप्रच्छनमभूत् । एको विमलनामा निर्मापितं चित्रमिति, द्वितीयस्तु भूमिकर्मेति आह ब्रूते । तत उत्सुकस्य नृपस्य दर्शनं समजनि । चित्रे भित्तिगते तोपो राज्ञः । उचितपूजा कृता विमलस्येति ॥ ३६४ ॥३॥ ___ ततो जवनिकाविक्षेपेण काण्डपटापसारेण तत्संक्रमेण द्वितीयभित्तिगतचित्रसंक्रमेण रम्यस्यातिशायिनश्चित्रस्य राज्ञो
दर्शनमकारि । जातवैलक्ष्यश्च नृपतिराह-किमस्मान् विप्रतारयसि वंचयसि ? प्रभाकरः नहु नैव देव! विप्रतारयामि । र यतः संक्रमो द्वितीयभित्तिगत एषः। ततो जवनिका दत्ता । नो तु नैव संक्रमो वृत्तः ॥ ३६५ ॥४॥
राज्ञो विस्मयतोषौ सम्पन्नौ । तथा, पृच्छा कृता, किमेवं भवता भूमिकाशुद्धिरारब्धेति । भणितं च तेनैवं वनेनैव विधिना भूमिकाशुद्धिलक्षणेन चित्रविधिः सम्यक् सम्पद्यते । कुतः। यतः, भावना सजीवत्वलक्षणा, वर्णकशुद्धिः कृष्ण- 6 नीलादिवर्णकानां स्वरूपोत्कर्षरूपा तथा 'थिरबुद्धि'त्ति स्थिरत्वं वृद्धिश्च स्फारीभवनरूपा सम्पद्यत इति । विपर्ययो व्यत्यासो भावनादीनां इतरथा भूमिकामालिन्ये सति सम्पद्यत इति । ततः साधुरिति कृत्वा महापूजा कृता भणितं | चास्तां भित्तिरियमित्थमेव भवति ॥ ३६६ ॥५॥
॥२१९॥ इत्थं दृष्टान्तमभिधाय दान्तिकयोजनामाह:
GANAGASAN
SAURABIAUSIAURIOSAS