________________
वक्तव्यं किश्चित्
श्रीउपदे- 13 निबद्धबुद्धिभगवन्मूलकारैस्तथापि, जिनवचनपीयूषपानकरणप्रयतमानमानसानां सद्धिप्तरुचीनां भविकानां तथाविधवस्तुतत्वावबोशपदे धोत्पादकत्वेन परमोपकारित्वम् ।
ग्रन्थनिर्माणप्रयोजनं महत्वं तु टीकाकारैरेवेत्येवं निरूपितम्
....."उपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति, कथ॥८॥
8 चित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासन्तानविषवेगावेशवशेनक्षोभ्यमानमनसो न स्थैर्यमवलम्बितुमलं इत्यादि विभाव्यैव"।
"तत्वामृतोदधिनामानन्दितसकलविबुधहृदयानाम् । उपदेशपदानाम्" ............. ॥" इत्यादि। ___टीकाकारमहात्ममिरपि मूलकारमहाशयाशयानुल्लचय तदाविष्करणे स्वप्रतिभया विषयविवेचना सङ्कोचाभावेनाकारि । कृता च तत्र तत्र कथापूर्तिः आमूलमुपदेशात्मकतत्वावबोधगर्मितसरसप्राकृतसंस्कृतगद्यपद्यमयमृदुभाषाशब्दादिरचनायुक्ता । अत एव मन्दमतिकारतस्तीत्रबुद्धिकान्तानां सुप्रायत्वं स्फुटम् । किमत्र वितततया? सम्पूर्णसंविज्ञानाय ग्रन्थावग्राहं प्रति कृत्वा प्रेर्यत्वमपि सविशेषसादरकरणार्थ प्रविलोक्य तत्तन्मुख्यविषयनामोद्धतिरेवाही,___उपदेशश्रवणयोग्यतायां मनुष्यत्वादिसामग्रीप्रधानाङ्गमिति मनुष्यजन्मादिदौलभ्याख्यानम् । धर्मप्रवृत्युपदेश उपदेशदानपात्रं सूत्रदान विधिश्च । (४४ पत्रपर्यन्तम् )
उपदेशोपि बुद्धिमत्ताधारभूतोऽत औत्पत्तिक्यादिबुद्धिविवरणं भूरिदृष्टान्तमयम् (१०० पत्रात्मकम् )
आज्ञापूर्विकाप्रवृत्तिः फलवतीति सविस्तरमाग्रन्थसमाप्तेः सयुक्तिकं वर्णनमतीवोपयोगि दृष्टफलश्च । अन्तरान्तरा पञ्चकारणवादसमाहै धानपूर्वकं खसमयस्य स्याद्वादवादित्वस्थापनम् । तत्रापि देवपुरुषकारयोः सोदाहरणपुरस्सरमुपवर्णितमनतिसङ्क्षिप्ततया ।
॥८॥