________________
-
मतिबौद्धाः शुद्धा प्रभवति कथं साद्य भवतां विचारश्चार्वाकाः प्रचरति कथं चारु चतुरः। कुतर्कः तर्कज्ञाः किमपि स कथं तर्कयति वः सति स्याद्वादाङ्गे प्रकटहरिभद्रोतवचने ॥१॥ प्रावप्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेसद्दर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालवालाः ।
यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद्गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥१॥ एवंरुपैरनल्पवर्णनस्तुतियुतगद्यपद्यैश्चरित्रप्रभावकत्वाद्यनेकगुणा आविष्चक्रिरे । त एवेति निश्शकम् , तदुल्लेखो यथा"जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण हरिभदायरिएणं भवविरहं इच्छमाणेणं" ( एतद्न्थान्ते) अतोन्यत् किं प्रामाण्याक्षरमार्गणप्रयोजनम् ? श्रीवीतरागशासनधुराधुरीणतामादधानानां करुणानिरतमानसानां विज्ञातसर्वज्ञागमरहस्यानां निखिलशास्त्रधुराधौरेयताधारिणां ग्रन्थसास्यप्रणेतृणां सूरिशेखराणां पूज्यश्रीमद्हरिभद्रसूरीणां सत्तासमयस्तु श्रीवीरादेकादशशताब्दीरूपो विक्रमाद्वा षष्ठशताब्द्यात्मकोऽविसंवादकः, तत्तत्प्रामाणिकप्राचीनपुरुषवचनगोचरत्वादाचीनैरप्यलध्वन्वेषणतःकृतनिश्चिततत्कालत्वाच ।
एतदूरिप्रमाणेभ्यो लेशतो यथा-१ "पणपन्नदससएहिं हरिसूरी आसि तत्थपुत्वकई" २ "पूर्वश्रुतव्यवच्छेदकालानन्तरं पञ्चपञ्चाशता वर्षेर्दिवंगतैः श्रीहरिभद्रसूरिभिः"
(कुलमण्डनसूरिः) 1"धीरावर्गसहगे गते सत्यमित्रे पूर्वव्यवच्छेद" तपागच्छपट्टावल्याम्, इति पूर्वश्रुतव्यवच्छेदकालो वीरभगवतो निर्वाणाद्वर्पसहस्रमाम्नायते ।