________________
श्रीउपदे
सङ्ग्रहगाथार्थः
शपदे
॥१९
॥
SEOSES OSASCOSSOSIOSOS
सुर:-किन्तु किं प्रमाणं पुनस्तन्निमित्तं दुर्लभवोधिकत्वे ? । जिनः-स्तोकं गुरुपद्वेषमात्रलक्षणं निमित्तं न महाविषयं 6 नात्यन्तमनुवन्धि । सुर:-कता णु' कदा पुनलोंभो बोधेरिति ? । जिन:-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समी-12 पवर्तिनि सुरभवादनन्तरजन्मनि । सुर:-कुतः सकाशात् ? । जिनः-निजभ्रातृजीवात् ॥ ३०॥१७॥
सुरः-कुत्रासौ भ्रातृजीवः? । कौशाम्ब्याम् । सुरः-किनामा सः? जिन:-मूकस्तु तुशब्दस्य क्रमभेदेन योजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदन्त इति । सुर:-किमेतद् नामद्वयम् ? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति ॥ ३०१॥१८॥
यथात्र चास्यामेव कौशाम्व्यां पुरि तापसश्रेष्ठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् गृहे स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः । कीदृशः सन्नित्याह-मार्जारीमन्युहतो बिरालीरोषेण हतस्ताडितः सन् ॥ ३०२॥१९॥ ___'तत्थोरगत्ति तत्र निजगृहे एव उरगः सप्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायोग्य पदयोजना
जातिस्मरणमभूत् । सूपकार्या भयेन वोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः। स्मरणं तत्रापि प्राग्जातेः। ततो 'मूयवय कुमर चउणाणी' इति मूकव्रतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ॥ ३०३ ॥२०॥