________________
गलमच्छभवविमोयगविसन्नभोईण जारिसोएसो।मोहा सुहो वि असुहो तप्फलओ एवमेसो वि॥१८८॥ ___गलो नाम प्रान्तन्यस्तामिपो लोहमयः कण्टको मत्स्यग्रहणार्थ जलमध्ये सञ्चारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एन । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवाद् दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशगालपिपीलिकामक्षिकादींस्तथाविधकुत्सितवचनसंस्कारात् प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डिविशेषः। हाविषण मिश्रमन्नं विपानं तदु भुंक्त तच्छीलश्च यः स तथाविधः। ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी चेति बिंदुस्तेषां यादृश एप परिणामःप्रत्यपायफल एव । कुतः, मोहादज्ञानात् पर्यन्तदारुणतया शुभोऽपि स्वकल्पनया स्वरुचिमन्तरेण तेपा तथा प्रवृत्तेरयोगात् सुन्दरोऽपि सन् अशुभः संक्लिष्ट एव । कुत इत्याहा-तत्फलतः भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद् अशुभपरिणामफलत्वात् । अथ प्रकृते योजयन्नाह;-एवं गलमत्स्यादिपरिणामवत् एषोऽपि
जिनाज्ञोलानेन धर्मचारिपरिणामस्तत्फलत्वादशुभ एव । आज्ञापरिणामशून्यतया उभयत्रापि समानत्वेन तुल्यमेव किल 13ाफलमिति ॥ १८८॥ ___ आह-कस्माच्छुभोऽपि परिणामो मोहादशुभतां प्रतिपद्यत इत्याशंक्याह;जो मंदरागदोसो परिणामो सुद्धओ तओ होति।मोहम्मि य पवलम्मी ण मंदया हंदि एएसिं॥१८९॥ यः कश्चिद् रागश्च द्वेषश्च रागद्वेषौ । तत्र रागोऽभिष्वङ्गः स च स्नेहकामदृष्टिरागभेदात् त्रिप्रकारः । तत्र स्नेहरागो
55555555555+e545454
KARANA