________________
इत एव कालादिकलापस्य कारणभावप्रज्ञानादेव ज्ञायते निश्चीयते विशदविमर्शवशावदातीभूतमतिभिर्विपयो गोचरः,॥31 खलुर्याक्यालकारे, देवपुरुपकारयोदेवस्य पुराकृतस्य कर्मणः, पुरुषकारस्य च जीवव्यापाररूपस्य-इयदेवस्य फलमियच्च पुरुपकारस्येत्यर्थः । अयं च मतिमद्भिः कथंचिद् विज्ञायमानोऽपि न प्रायेण सुखबोधः स्यादिति परिभाव्याह:एतं देवपुरुपकारविषयं, च पुनरर्थे, तत एवं पुनरुपरि एतच्छास्त्राग्रभागे 'जमुदग्गं थेवेण वि कम्मं परिणम'-इत्यादिना ग्रन्थेन वक्ष्ये भणिष्यामि समासतः संक्षेपात् तन्त्रयुक्त्या शास्त्रसिद्धोपपत्तिभिरित्यर्थः, विस्तरभणनस्य दुष्करत्वाद दुर्योधत्वाच्च श्रोणामिति ॥ १६६ ॥
इत्थं बुद्धिग्रन्धश्रवणोपलव्धबुद्धिर्बुधो यद्विदध्यात् तदाह;बुद्धिजुओ आलोयइ धम्मट्ठाणं उवाहिपरिसुद्धं । जोगत्तमप्पणो चिय अणुबंधं चेव जत्तेण ॥१६७॥
बुद्धियुतः प्राक्प्रतिपादितौत्पत्तिक्यादिमतिपरिग़तो जन्तुरालोचयति विमृशति किमित्याह;-धर्मस्य सर्वपुरुषार्थप्रथ-| मस्थानोपन्यस्तस्यात एव सर्वसमीहितसिद्ध्यवन्ध्यनिवन्धनस्य श्रुतचारित्राराधनारूपस्य स्थानं विशेषो धर्मस्थानम् , 8 हाउपाधिभिविशेषणेद्रेव्यक्षेत्रकालभावलक्षणैरुत्सर्गापवादवादास्पदभावमुपगतैः परिशुद्धमप्राप्तदोपम, यथा सम्प्रति एते दूद्रव्यादयः किं साधका बाधका वा वर्तन्ते प्रस्तुतधर्मस्थानस्य, यतः पठन्ति;-"उत्पद्यते हि साऽवस्था देशकालामयान्
प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्यं च वर्जयेत् ॥१॥" तथा योग्यत्वमुचितत्वमात्मनोऽपि च स्वस्यापि न केवलं धर्मस्थानमित्यपिचशब्दार्थः, आलोचयतीत्यनुवर्त्तते । यथा कस्य धर्मस्थानस्याहं योग्यः, यथोक्तं-"कः कालः कानि