________________
त्वया ज्ञातमिति प्रश्ने स प्राह-पथि अन्य-अग्रहणात् पथि वर्तमानाया वदर्याः फलानामन्यैरनुपादानात् । किमत्र ज्ञानं कोऽत्रातिशयेनार्थों ज्ञातव्य इत्युत्तरे विहिते नृपतोपो जातः॥ १५३ ॥
ततः 'धूलिकिरियामाणंति' धूलिः क्रिया कणिका गोधूमानां पीपणेन धूलितया करणात् तस्या माणकं प्रतीतरूप13ामेव । तथा 'गुलपलघयकरिससंनिरूवणया' इति गुडपलस्य घृतकस्य च संनिरूपणं निवाहहेतुतया कृतम् । तेन च
देवप्रसादो वर्त्तते इत्युक्त्वा 'बहुमण्णण'त्ति बहुमानगोचरतया प्रतिपन्नम् । पुनरपि स्थिरप्रज्ञाज्ञानार्थ राज्ञा ॥ १५४॥ | 'टारा हि वासपेसण'त्ति टारस्य खुड़कस्य तुरङ्गस्य अधिवासितस्य रात्री कृतपूजस्य प्रेषणं कृतं, यथा 'सबोत्तमोत्ति सर्वोत्तमोऽयं तुरंगः किं गृह्यतां नवा इति । तेन च 'तप्परिक्ख'त्ति तत्परीक्षा कृता । तत्र खररोमाणि । तस्मिन् नोत्तम इति ज्ञाने जाते सुमतेः प्रसादः कृतो राज्ञा। मानादिवृद्धिरिति द्विगुणमानादीनां पूर्वोकानां वृद्धिर्विहितेति ॥ १५५॥ __ तथा कन्यारत्ने च परीक्षितुमारब्धे । एवं तुरंगमवत् । वदनाद् मुखाद् आरभ्य 'सोणिच्छिवण'त्ति श्रोणिस्पर्शी विहित इति । ततो धीरत्वादक्षोभाया एकस्या वेश्यासुता इति मतिर्ज्ञानम् । द्वितीयायास्तु तथा स्पर्शप्रारंभे तन्निर्भसनात् कुलजाइयमिति ज्ञानं समजनि सुमतेः । ततःप्रसादवृद्धिरिति एपा वक्ष्यमाणा जाता॥१५६ ॥ | यथा राज्ञा पूर्वोक्तवृत्तिदाता कोशाध्यक्षो भणितः,-कुरु सेतिका कणिकायाः, पलं तथा चैव घृतस्य, चत्वारि चैव गुडस्य पलानि । तेन च तस्य वणिक्सुतत्वपरिज्ञानाद् उक्तं न तावदेव! कोपः कार्यः भण्यते किञ्चिद्' इत्थं तुच्छस्य क्रमवृद्धस्य कणिकामाणकादेर्दानात् त्वं वणिक्पुत्र इति ज्ञायते । प्रचुरदातारो राजसूनवः प्रसन्नाः सन्तो भवन्तीति । कोज प्रत्यय इत्युक्ते राज्ञा, भणितं तेन जननी पृच्छा कर्तुमुचितेति ॥ १५७ ॥