________________
जिंकैच किमत्र तत्त्वमित्यजानद्भिः 'सीसओलिहणा' इति शीर्पयोस्तन्मस्तकयोः कहतकेन अवलेखना पररोमलाभार्थ कृता । लब्धानि च रोमाणि। ततस्तदनुमानेन यो यस्य स तस्य वितीर्ण इति कारणिकानामौत्पत्तिकी बुद्धिरिति । अव मतान्तरमाह;-अन्ये आचार्या त्रुवते, 'जाया कत्तण'त्ति तो पुरुपौ कारणिकैः पृष्टौ यथा केनैती भवतोः पटौ
कतिती? पाहतु:-निजनिजजायाभ्याम् । ततो द्वयोरपि जाये कर्त्तनं कारिते। ततस्तदन्यसंदर्शनाद् व्यत्ययेन सूत्रकर्त13 नोपलम्भाज्ज्ञानं निश्चयः कारणिकानां संपन्नो, वितीर्णश्च यो यस्य स तस्येति ॥८३ ॥
अथ सरडेत्ति द्वारं;सरडहिंगरणे सन्नावोसिरदरि वाहि दंसणावगमो।अण्णे तवण्णिगचेल्लणाण पुच्छाइ पुरिसादी ॥४॥
इह फिल कश्चिद्वणिक् क्वचिद् वहुरन्ध्रायां भुवि पुरीपमुत्स्रष्टुमारब्धः। तत्र च दैवसंयोगात् 'सरडहिगरणे' इति द्वयोः सरटयोरधिकरणं युद्धमभूत् । तत्र चैकः 'सन्नावोसिरदरि'त्ति संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोव्य तदधो- 8 भागवर्तिन्यां दयाँ प्रविष्टः । अन्यस्तु तद्दष्ट एव पलाय्यान्यत्र गतः । एवं च तस्यात्यन्तमुग्धमतेः शङ्का समुत्पन्ना;यदयमेकः सरटो नोपलभ्यते तन्नूनं ममापानरन्ध्रेणोदरं प्रविष्टः इत्येवं शङ्कावशेन 'वाहित्ति व्याधिस्तस्याभूदुदरे । निवेदितं च तेन तथाविधवैद्याय यथा ममायं वृत्तान्तः संपन्नः। वैद्येनापि स प्रतिपादितः-'यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमि' इति । अभ्युपगतं चैतत्तेन । ततो वैद्येन लाक्षारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रक्षिप्य विरेचकाफ्धमयोगेण पुरीपोत्सर्गमसौ कारितस्तत्र । ततः 'दसणावगमो' इति पुरीपवेगाहतसरटस्य घटान्निर्गतस्य
ॐरॐॐॐॐॐ
94955863960SS009)