________________
ACCURRENERASACROCRACRX
भावः-इदमुफ रोहकेण तं प्रति, यदि स मदीयो नृपो भवद्भिः सह संधाय पश्चात् किंचिद् व्यभिचरति तदा तेन यस्तीर्थगमनदेवभवनसंपादनद्विजादिप्रदानवापीतडागादिखननादिना विधानेनोपार्जितो धर्मः स सर्वो मया भवते दत्तः, तद्रहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति करोतु भवांस्तेन सह संधानम् । न ह्येवंविधां प्रतिज्ञा कश्चिद् भनक्ति । एवं विश्वासिते तस्मिन् 'बुग्गह'त्ति व्युग्रहोऽवस्कन्दो धाटिरित्यर्थः छलेन तत्र गत्वा राज्ञा संपादितः।। स्वहस्तगृहीतश्चासौ कृतो द्विपन् । आनीतश्चोज्जयिन्याम् । तत्र च चिन्तितं तेन, कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृतः । इति तस्य मिथ्याविकल्पापनोदाय 'निवकियगकोवोत्ति नृपेण जितशत्रुणा रोहकं प्रति कृतकः कृ-हा त्रिमः पुनः कोपः कृतः ॥ ७५ ॥ धम्मो मे हारविओ काऊणन्नतणओ तओ दिपणो।कह होइ मज्झ एसोजह तुह तणओ उ तस्सेव७६ ॥
ततो रोहकेणाभ्यधायि–किमर्थमस्मान्निरपराधानपि प्रतीत्य देवेन इयान् कोपः कृत इति । तत्रोक्तं पृथिवीपतिना 'धम्मो मे हारविओ काऊण'त्ति धर्मो मम हि यस्त्वया हारित इति कृत्वा । ततो रोहकेणान्यसत्को महर्षेः कस्यचित् सं-1 वन्धी तको धर्मो दत्तो राज्ञे । अयमभिप्रायः-देव! यदि मया दत्तो धर्मस्त्वदीयोऽन्यत्र प्रयाति, तदाऽनेन महर्षिणा आचालकालाद् यदनुष्ठितो धर्मः स मया तुभ्यं वितीर्ण इति नास्ति मयि कोपस्यावकाशः प्रभोः । राजा;-कथं भवति । मम एप धर्मो महर्पिसत्को यतो मया न कृतो नापि कारित इति? रोहकः, यथा तवतनकस्त्वत्संवन्धी पुनर्धर्मः तस्यैव विपक्षभूपतेरभून्मया वितीर्णः सन्निति ॥ ७६ ॥
OFRASESORIASISARTRESS