________________
मना
नशााका
ॐ॥ अथ प्राकृतम् ॥१॥ अथशब्द आनन्तर्यार्थोधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वाप्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य । लक्षण न देश्यस्य इति ज्ञापनार्थम्। संस्कृतसमें तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृत-ज वद् वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋ--ल-ल-ऐ-औङब-श-ष-विसर्जनीय-प्लुत-वों वर्णसमानायो लोकाद् अवगन्तव्यः। ङ-नौ स्ववर्यसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं ॥ सौन्दर्यम् । सौंअरिअं ॥ कौरवाः । कौरवा ॥ ती अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च न भवति ।
बहुलम् ॥ २॥ बहुलम् इत्यधिकृतं वेदितव्यम् आशाखपरिसमाप्तेः ॥ ततश्च । कचित् प्रवृत्तिः कचिद् अप्रवृत्तिः क्वचिद् विभाषा कचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥
आर्षम् ॥ ३॥ । ऋषीणाम् इदम् आर्षम् । आर्षे प्राकृतं बहुलं भवति । तदपि । यथास्थानं दर्शयिष्यामः । आर्षे हिं सर्वे विधयो विकल्प्यन्ते ॥
दीर्घ-इसौ मिथो वृत्तौ ॥४॥ वृत्तौ समासे स्वराणां दीर्घहवौ बहुलं भवतः मिथः परस्परम् ॥ तत्र इस्वस्य..दीर्घः । अन्तर्वेदिः । अन्ता-वेई ॥ सप्तविंशतिः । सत्ता-1