________________
28
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः * अतः इयं प्रसभिज्ञा रूपाद्यतिरिक्तं तदाश्रयभूतं वस्तु प्रकाशयति इदं रूपस्पर्शवत् इति । * ननु रूपस्पर्शयोनियताक्षवेद्यत्वेप्यवस्थाभेदात्प्रतिसन्धानं स्यात् । न स्यात् । न ह्यस्माकमिव स्थिरमवस्थान्तरभाक् किञ्चित्त्वन्मते । *विभज्यवैभाषिकपक्षस्तु
आनन्ददायिनी इदं रूपस्पर्शवदिति -यदेव रूपवत् तदेव स्पर्शवदित्यर्थः । ननु रूपादेः प्रतिनियतेन्द्रियग्रह्यात्वं न स्वरूपेण ; आपतु रूपत्वाद्यवस्थाविशिष्टतया ; तथाच रूपत्वावशिष्टस्यैव स्पर्शत्वाद्यवस्थस्य त्वगिन्द्रियेण ग्रहसंभवात् न प्रत्यभिज्ञान्यथानुपपत्त्या तदतिरिक्तमिसिद्धिरिति शङ्कते-नन्विति-इयं शङ्का भवत्पक्षे(नोदेति)नोपपद्यते इत्याह-न स्यादिति। ननु विभज्यवैभाषिकेण--'अस्थिहि भिक्खवे अकदयं' इत्यागमबलेन नित्यस्यापि तत्वस्याङ्गीकारात् कथमवस्थान्तरभाजो वस्तुनो राहित्यमित्यत्राह -विभज्येतिअस्तिहि भिक्षोरकृतकं इति तदर्थः । विभज्य-विभागेन नित्यवस्त्वङ्गीकारात् विभज्यवैभाषिक इति नाम । वैभाषिकैकदेशीति यावत् ।
भावप्रकाशः *' अतः- पूर्वोक्तहेतुना । प्रकारान्तरेणाप्यर्थान्तरमाशङ्कय परिहरति-* ननु रूपस्पर्शयोरित्यादिना। * *विभज्यवैभाषिकपक्ष इति-परमतभङ्गे वैभाषिकभङ्गाधिकारे विभज्यवैभाषिकमते
अस्थि हि भिक्खो अकदयं जइ णत्थि एदस्स जन्तुणो सत्तम् । माणससुण्णावत्था णं संपज्जइ ॥ (अस्ति हि भिक्षोरकृतं यदि नास्यैतस्य जन्तोस्सत्वम् । ) (मानसशून्यावस्था ननु संपद्यते ॥