________________
सरः]
कालातिरेकबाधकादिः तन्निरासच
615
तत्वमुक्ताकलापः कालतास्त्वम्बरादेः अन्यस्मिन्नन्यधर्मोपनयननि
सर्वार्थसिद्धिः तिरिक्तकल्पनया ? यद्यतिप्रसङ्गभयात् बुद्धिविशेषसंवन्धानादरेण कालोऽन्यः कल्प्यते तथाऽप्यतिप्रसङ्गस्तदवस्थः। यथादर्शनं व्यवस्था च समानेति भावः। कालता -- परत्वादिनिर्वाहकतेत्यर्थः । अत्र दिनिरूपणे दर्शितमतिप्रसङ्गं तद्वदेव परिहरतिअन्यस्मिन्निति । शास्त्रोक्तं न लाघवतर्कबाध्यमित्यभिप्रायेणाह
आनन्ददायिनी भेदाभ्यां भेदः । पूर्वत्र तपनावृत्तरतीतत्वाद्बुद्धिविषयतयेदानीन्तन• परत्वादिजनकत्वं वाच्यम् । उत्तरत्र बुद्धेम्साक्षादेव सन्निधिरिति ध्येयम्।
ननु बुद्धयादीनामनेकेषां परत्वादिप्रयोजकत्वे गौरवम् ; यून्यपि बुद्धिविशेषसंघटितोपाध्यादिभिः परत्वादेर्जननापत्त्या अतिप्रसङ्गश्चेत्याशय अतिरिक्तकालकल्पनेऽपि प्रसङ्गस्समानः ; यूनि(कालेन)सूर्यावर्तबाहुल्यो(ल्यस्यो) पनयसंभवात् । यदि दर्शनादिना कथञ्चित्परिहारः सोप्युपाधिपक्षे समान इत्याह--यद्यतिप्रसङ्गेति । कालस्य पूर्वपक्षिणाभ्युपगमे कथं कालताभ्युपगम इत्यत्राह--कालतेति । आदिशब्देन क्षणलवादिव्यव. हारनिर्वाहकत्वम् । नन्वाकाशादिविभुद्रव्यस्य स्थविरादौ सूर्यगत्युपनाययत्वे अन्यधर्मोपनायकत्वाविशेषात् काशीस्थेन जपाया रक्तिन्ना सेतुस्थ(सेतुगत)स्फटिकोपरागप्रसङ्ग इत्यत्राह-अत्र दिनिरूपणे इति । दर्शनानुरोधेन व्यवस्थति तत्रोक्तमनुसन्धेयम् । शास्त्रोक्तमिति---कल्प्यत्व एव लाघवतर्कावतार इति भावः । ननु कालस्वरूपस्य शास्त्रोक्तिमात्रादति.