________________
सरः]
भूपतनवादनिरासः
601
सर्वार्थसिद्धिः
आगमानुविधायिनांतु सर्वाधारेण ब्रह्मणा *सोपधानं निरुपधानं च विधृतेति।अत एव पृथिव्याधारस्थिरतरकपरक्लूप्तिः नि
•
आनन्ददायिनी नाभ्युपगम्यते ? इत्यत्राह--आगमानुविधायिनामिति । सोपधानं-- कूर्मदिग्गजनागराजादिशरीरद्वारकम् ; सङ्कल्पमात्रेण च धृतिरित्यर्थः । ये तु शैवाः
सामुद्राम्भसि विन्यस्तकर्परस्था तु मेदिनी ।
संक्षोभं सा तु नायाति तरङ्गावर्तसंकुला ॥ इत्याहुः; तन्मतमनुवदति-अत एवेत्यादिना ।
भावप्रकाश इति । 1*सोपधानमिति-आदिशेषकमठादितात्पर्येण कटाहबहिरावरणतात्पर्येण च । *निरुपधानामिति । 'वासुदेवः परं ब्रह्म' इत्यारभ्य संकर्षणानिरुद्धादिसृष्टिमभिधाय
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ।
मध्ये समन्तादण्डस्य भूगोलो व्योन्नि तिष्ठति ॥ इति सूर्यसिद्धान्ते उपसंहृतम् ।
* निरस्तेति-अयं पक्षो भास्करेणापि निरस्तःमूर्तो धर्ता चेद्धरित्यास्ततोन्यः तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् किमाघे स्वशक्तिः किं नो भूमेः साष्टमूर्तेश्च मूर्तिः ॥