________________
588
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
भावप्रकाशः
भ्रमणमस्तीति नवमं सूत्रम् - उदयास्तेत्यादि ' इत्युदयास्तेत्यादिश्लोक
मवतारयामास ||
6
यद्यपि श्रीपतिना इयं कारिका भूभ्रमणस्य तात्विकत्वपरतया व्यख्यातेव प्रतिभाति ; तथाऽपि तेनैव आर्यभट श्लोकव्याख्याच्छायापन्नस्ववाक्ये केचिदित्युक्तया इयं व्याख्या केषां चित्संमता न तु स्वाभिमतेति सूचितम् । अत्रेदमवधेयम् - यद्यपि 'युगरविभगणाः ; इति श्लोके उपक्रमे भुवो ग्रहाणां चाविशेषेण प्रागतिमत्त्वमभिहितम् । तत्र भुवः प्राग्गतिमत्त्वं मिथ्याज्ञानसिद्धं ? आहोस्वित् प्रवहाधीनमपञ्जरप्रत्यग्भ्रमणं मित्याज्ञानसिद्धमिति विचारे अनुलोमगतिनस्थः इत्यस्य प्रथमकोटिपरत्वमेवाचितम् । भूग्रहमानां' इति पूर्वं भुवः ग्रहाणां चाविशेषेण दीप्तिमुक्ता अनन्तरं ' वृत्तभपञ्जरमध्ये ' ' यद्वत्कदम्बपुष्पग्रन्थिः ' इत्यादिश्लोकद्वयेन भूगोळस्वरूपमुपपादितम् । तत्र भुवः वृत्तभपञ्जरस्य च प्रसङ्गो वर्तते । तत्र 'पञ्जरस्सग्रहो भ्रमति ' इत्युत्तरश्लोके भपञ्जरपदोपादानेन ' वृत्तभपञ्जरमध्ये ' इति श्लोकार्थ एव दृढीक्रियते इति स्फुटं प्रतीयते. अतः पूर्वश्लोकः भूगोलस्वरूपविशेषनिर्णयार्थमेव प्रवृत्त इत्युभाभ्यामप्यङ्गीकरणीयम् । तत्र भूभ्रमणवादिना सुस्थिरस्य भपञ्जरस्य लङ्कासमपश्चिमगत्वेन चलत्वेन ज्ञानं मिथ्या इत्यर्थः प्राधान्येनेोपपादनीयः । तत्र भूगोलस्वरूप - निर्णयश्च आर्थिक एव भवति न तु शाब्दः । पूर्वश्लोके मिथ्याज्ञानविषयभूतार्थस्य उत्तरश्लोके भपञ्जरस्सग्रहो भ्रमतीति स्थापनेन तदपि मिथ्याज्ञानसिद्धमेवेति भवता वाच्यमिति सर्वलो को पहासप्रसङ्गः । पश्यतीति पूर्वश्लोक उपादानात् पूर्वश्लोकमात्रं मिथ्याज्ञानपरमिति उत्तरश्लोके पश्यतीति पदानुपादानेन तात्विकार्थ एवोत्तरश्लोकार्थ इत्यकामेनापि भवताऽपि स्वीकार्यम् । एवं च वृत्तभपञ्जरमध्ये इति लोके भूगोलस्सर्वतो