________________
सरः] भौमत्वनैल्यमात्रानात्मत्वे, द्रव्यधर्मोपलम्भः तदभ्रमस्वं पारतन्त्रयोपपत्तिः 569
तत्वमुक्ताकलापः छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धात्स्वभावात् । स्पर्शाख्यातिर्न रूपं हरति हरिशिलालोक
सर्वार्थसिद्धिः गन्धो वातीत्यादिष्वपि द्रव्याभिप्रायेण प्रयोगः । यदि स्वतन्त्रद्रव्यं तमः तदा तद्गत्यागत्यनुविधानं कथमित्यत्राह-छायावदिति । यथाऽयस्कान्तस्थितिगत्यनुविधानं पृथग्द्रव्यस्याप्ययसो दृश्यते तथात्रापि स्यात् ; यथादृष्टि स्वभावव्यवस्थापनात् । ननु पार्थिवत्वरूपवत्त्वे स्पर्शवत्त्वव्याप्ते । न च ध्वान्ते स्पर्श उपलभ्यते! अतस्ते उभे तस्य न स्त इत्यत्राह—स्पर्शाख्यातिरिति । तमस्स्पशस्यायोग्यत्वादित्यभिप्रायेण नीलत्वसाम्याच हरिशिलालोक
आनन्ददायिनी अन्यथा श्वैत्ये पीतिमत्वाद्यारोप(त्वाद्युपलम्भ)प्रसङ्गात् । नचेष्टापत्तिः ! रूपप्रकारकत्वाभावप्रसङ्गात् । न च धर्मिणोऽपि भानात् पीतरूपस्यापि प्रकारता! तथाऽपि तमःप्रतीतो नैल्यप्रकारतानुपपत्तेः । कदाचित् क्रियायामपि रूपत्वाद्यारोपप्रसङ्गे गच्छत्यपि स्वस्मिन् गमनाभावप्रतीतिप्रसङ्गः । न च नीलरूपस्यैवारोपात्तत्प्रकारताप्रतीति (तीतेरुपपत्ति) ! प्राप्तिः! तथा सति तथा आश्रयस्यैव प्रतातिसंभवेना(वेतथा)रोपकल्पनायोगादि(नानुपपत्तेरि)ति भावः । ननु गन्धो वातीतिवदत्रापि चटुल(लवदि)धीम्स्यादित्यत्राह - गन्धेति । गन्धशब्दस्य द्रव्यपरत्वेन तत्रापि द्रव्य एव चटुलत्वधीरित्यर्थः । छायायाः द्रव्यत्वादन्यगत्यनुविधानं युक्तमित्यत्राह-यथेति । तमस्म्पर्शस्येति–इन्द्रनीलप्रभावदनुद्भत